________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
से इति-सेशब्दोऽथशब्दार्थः, अथ ये पुनरमी बालादीनामपि प्रसिद्धा अनेके दीन्द्रियादिभेदेन बहव एकैकस्यां जातौत्रसाः पाणिनः, वसन्तीति त्रसाःप्राणा उच्छ्वासादयो येपां ते प्राणिनः,ते के इत्याह-एष खलु षष्ठो जीवनिकायस्त्रसकाय इति प्रोच्यत
इति योगः. तत्राण्डाजाता अण्डजाः पक्षिगृहकोकिलादयः, पोतादिवजायन्त इति पोतजास्ते च हस्तिवल्गुलीचर्मजलौकादयः, , जरायुभिवेष्टिता जायन्त इति जरायुजा गोमहिष्यजाविकमनुष्यादयः, रसाजाता रसजा आरनालदर्धितेमनादिषु प्रायः कृम्यादयोऽतिसूक्ष्मा भवन्ति,संस्वेदाजाता इति संस्वेदजामत्कुणयूकादयः, संमूर्छनाजाताः संमूर्छिमाः शलभपिपीलिकामक्षिका
से जे पुण इमे अणेगे बहवे तसा पाणा. तं जहा-अंडया पोयया जराउया रसया संसेइमा समुच्छिमा उप्भिया उववाइया. जेसिं केसिंचि पाणाणं अभिरकंतं पडिक्कंतं संकचियं पसारियं स्यं
भंतं तसियं पलीइयं आगइगइविन्नाया, जे य कीडपयंगा. जा य कुंथुपिपीलियां, सव्वे बेइंदिया शालूकादयः, उद्भेदाजन्म येषां ते उद्भेदजा पतङ्गखञ्जरीटपारिप्लवादयः, उपपाताजाता उपपातजाः उपपाते वा भवा औपपातिका देवा नारकाश्च.एतेषामेव लक्षणमाहू-येषां केषांचित्सामान्येनैव प्राणिनां जीवानामभिकान्तं भवतीति शेषः. अभिक्रमणमभिक्रान्तं प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं प्रतिक्रान्तं प्रज्ञापनात्प्रतीपं क्रमणमिति भावः सङ्कुचनं सङ्कुचितं गात्रसंकोचकरणं, प्रसारणं गात्रविततकरणं, रवणं,रुतं शब्दकरणं भ्रमणं भ्रान्तमितस्ततश्च गमनं,बसनं त्रस्तंदुःखोदेजनं, पलायितं कुतश्चिन्नाशनं,
१-उद्भेदाज्जायन्त इति विग्रहः साधुः ।
For Private and Personal Use Only