________________
Shri Mahavir Jain Aradhana Kendra
www.kobalbirth.org
Acharya Shei Katasagarsur Gyarmandie
नुकूलविषयादिसुखो गुरुकर्मत्वात्. अर्थ प्रतिस्रोत एतस्माद्विपरीतः आश्रव इन्द्रियजयादिरूपः परमार्थपेशलः कायवागमनोव्यापारः आश्रमो वा व्रतग्रहणादिरूपः. सुविहितानां साधूनां, अथोभयफलमाह--अनुस्रोतः संसारः शब्दादिविषयानुकूल्यं | संसार एव, कारणे कार्योपचारात्. यथा विषं मृत्युः,दधित्रपुसी प्रत्यक्षो ज्वरः. प्रतिम्रोत उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी, सुपा सुपो भवन्तीति वचनात्, तस्मात्संसारादुत्तारः,उत्तरणमुत्तारः,हेती फलोपचारात्.यथायुर्घतं, तन्दुलान वर्षति पर्जन्यः३.
तम्हा आयारपरक्कमेणं संवरसमाहिबहुलेणं ।
चरिआ गुणा अनियमा अ हुंति साहूण दट्टव्वा ४. तम्हेति-यस्मादेतदेवं पूर्वोक्तं तस्मात्साधुनैवंविधेनाप्रतिपाताय विशुद्धये च साधूनां चर्या भिक्षुभावसाधना बायाऽनियतवासादिरूपा, गुणाश्च मूलगुणोत्तरगुणा नियमाश्चोत्तरगुणादीनामेव पिण्डविशुद्धयादीनां स्वकालासेवननियोगा द्रष्ठव्या भवन्ति, एते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेण, किम्भूतेन साधुना ? आचारपराक्रमेण, आचारे ज्ञानादौ पराक्रमः प्रवृत्तिर्बलं यस्य स तेन, पुनः किम्भूतेन साधुना ? संवरसमाधिबहुलेन, संवर इन्द्रियादिविषये समाधिरना-1
For Private and Personal Use Only