________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूतमेवं चिन्तनीयामति षष्ठं स्थानम्. ६. अथ सप्तमस्थानमाह-तथाधोगतिवासोपसम्पत्, अधोगतिर्नरकगतिस्तिर्यग्गतिर्वा, तस्यां वसनमधोगतिवासः, एतनिमित्तभूतं कर्म गृह्यते, तस्योपसम्पत्, सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनमेवं चिन्तनीयमिति | सप्तमं स्थानम्. ७. अथाष्टमं स्थानमाह-भो इत्यामन्त्रणे, गृहिणां गृहस्थानां धर्मः परमनिर्वृतिजनको दुर्लभ एव, किं कुर्वतां गृहिणां ? गृहपाशमध्ये वसताम्, अत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादिभवाभ्यासादकारणं स्नेहबन्धनमेतच्चिन्तनीयमित्यष्टमं स्थानम्. ८. अथ नवमस्थानमाह--तथा आतङ्कः सद्योघाती विचिकादिरोगः।
अहरगइवासोवसंपया ७. दुल्लहे खलु भो गिहीणं धम्मे गिहिवासमझे वसंताणं ८.
आयंके से वहाय होइ ९. संकल्पे से वहाय होइ १० सोवकेसे गिहवासे, निरुवकेसे परिआए ११. से इति तस्य गृहिणो धर्मबन्धुरहितस्य वधाय विनाशाय भवति, तथाविधवधश्चानेकवधहेतुरेवं चिन्तनीयमिति नवमं स्था-1 नम्. ९. अथ दशमं स्थानमाह-तथा संकल्प इष्टानिष्टविप्रयोगप्राप्तेयों मनःसम्बन्ध्यातङ्कः स तस्य गृहिणस्तथाचेष्टायोगा|न्मिथ्याविकल्पाभ्यासेन प्रग्रहादिप्राप्तेर्वधाय भवत्येतच्चिन्तनीयमिति दशमं स्थानम्. १०. अथैकादशं स्थानमाह--गृहवासो गृहाश्रमः सोपक्लेशः, सह उपक्लेशेन वर्तते यः स सोपक्केशः, उपक्लेशाः कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानगताः पण्डित
For Private and Personal Use Only