________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनहेतवस्तथैतान्यपि संयमादुन्मार्गप्रवृत्तिं वाञ्छतां भव्यजीवानामपि नियमनहेतवः, यतश्चैवमतः सम्यक्प्रत्युपेक्षितव्यानि भवन्ति किम्भूतेन साधुना ? उत्पन्नदुःखेन, सञ्जतशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन, पुनः किम्भूतेन ? संयमे पूर्ववर्णित स्वरू पेऽरतिसमापन्नचित्तेनोद्वेगगताभिप्रायेण संयमान्निर्विण्णभावेनेत्यर्थः पुनः किम्भूतेन ? अवधानोत्प्रेक्षिणा, अवधानमपसरणं संयमादुत्प्राबल्येन प्रेक्षितुं शीलं यस्य स तेनावधानोत्प्रेक्षिणोत्प्रब्रजितुकामेनेत्यर्थः पुनः किम्भूतेन ? अनवधावितेनैव, अनुत्प्रव्रजितेनैव तमिति तत्र प्रथमं स्थानकमाह - तद्यथेत्युदाहरणे, हं भो दुःखमायां दुष्प्रजीविन इति, हं भो शिष्यामन्त्रणे, दुःखमायामधमकालरूपायां कालदोषादेव दुःखेन कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते,
तं जहा- हं भो दुस्समाई दुप्पजीवी १. लहुसगा इत्तरिआ गिहिणं कामभोगा २. भुज्जो अ सायबहुलानरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदार भोगरहितेन विटम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति प्रथमं स्थानम्. १. अथ द्वितीयस्थानमाह - तथा लघव इत्वरा गृहिणां कामभोगाः, दुःखमायामिति वर्तते, सन्तोऽपि लघवा स्तुच्छाः प्रकृत्यैव तुषमुष्टिवदसारा इत्वरा अल्पकाला गृहिणां गृहस्थानां कामभोगा मदनकामप्रधानाः शब्दादयो विषया विपा ककटवश्च न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति द्वितीयं स्थानम्. अथ तृतीयस्थानमाह - तथा भूयश्च शातबहुला मनुष्याः, भुक्तेष्वपि कामभोगेषु पुनरपि सुखाभिलाषिण एव मनुष्याः, अतः किं कामभोगैः सम्प्रत्युपेक्षितव्य
१ विडम्बनेति युक्तः पाठः ।
For Private and Personal Use Only