SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यमेकेन्द्रियाणां, तदधिकं द्वीन्द्रियाणामिति. आख्याता सर्वज्ञेन कथिता, किंविशिष्टा पृथिवी ? अनेकजीवा अनेके जीवा यस्यां सा अनेकजीवा, न पुनरेकजीवा यथा वैदिकानां पृथ्वी देवता इत्येवमादिवचनप्रामाण्यादिति. तथानेकजीवापि कैश्चिदेकभूता|त्मापेक्षया मन्यते. यदाहुरेके-"एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् १. अत एवाह-किंभूताःपृथिवी ? 'पुढोसत्ता' पृथक्सत्त्वाः प्राणिनो यस्यां सा पृथक्सत्त्वा अगुलस्यासंख्येयभागमावावगाहनरैनकैः पार्थिवजीवैः समाश्रितेति भावः आह-यद्येवं जीवपिण्डरूपा पृथिवी, तदा तस्यामुच्चारादिकरणेन नियमतस्तन्मरणादहिंसाया अनुत्पत्तिः स्यात्, तथा च सति साधुधर्मस्यासंभवः स्यात्. अतोऽवाह--अन्यत्र शस्त्रपरिणतायाः, शस्त्रप|रिणतां पृथिवीं विहायान्या पृथिवी, चित्तवत्याख्याता इत्यर्थः पृथिव्याः शस्त्रं विधा--स्वकायशस्त्रं, परकायशस्त्रं, तदुभयशस्त्रं, च तत्र स्वकायशस्त्रं यथा-कृष्णमृद् नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शसंभेदेपि शस्त्रयोजना कार्या. परकायशस्त्रं यथा-अप्तेजःप्रभृतीनां पृथिवी, अथवा पृथिव्या अप्तेजःप्रभृतयः. तदुभयं यथा-कृष्णमृदुदकस्य पाण्डुमृदश्च | परस्परस्पर्शगन्धादिभिः. यदा कृष्णमृदा कलुषितमुदकं भवति तदैषा कृष्णमृदुदकस्य पाण्डुमृदश्च शस्त्रं भवति. एवं च परिणतायां पृथिव्यामुच्चारादिकरणेऽपि नास्ति तन्मरणं, ततोऽहिंताधर्मः साधूनां संभवत्येव. एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यात इत्याद्यपि द्रष्टव्यम् ४ इदानीं वनस्पतिजीवानां विशेषभेदप्रतिपादनार्थमाह For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy