________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थान इति गम्यते, तथा तस्मिन्, वेतालादिकृतार्तनादाट्टहास इत्यर्थः, अनोपसगेषु सत्सु समसुखदुःखसहश्च योऽचलितसमताभावःस भिक्षुः. ११. एतदेव स्पष्टयति--पडिममिति-यः साधुः श्मशाने प्रतिमा मासादिरूपां प्रतिपद्य विधिनाटगीकृत्य न विभति, न भयं प्रामोति, किं कृत्वा ? भैरवभयानि दृष्ट्वा, रौदभयहेतूनुपलभ्य वेतालादिशब्दादीनि, किम्भूतः साधुः ? विविधगुणतपोरतश्च, नित्यं मूलोत्तरगुणेष्वनशनादितपसि च सक्तः सर्वकालं न शरीरमभिकाङ्क्षते, निस्पृहतया वार्तमानिक
पडिम पडिवजिआ मसाणे नो भायए भयभरवाई दिअस्स । विविहगुणतवोरए अ निच्चं न सरीरं चाभिकखए जे स भिक्खू १२, असई वोसट्टचत्तदेहे अकुठे व हए लूसिए वा।
पुढविसमे मुणी हविजा अनिआणे अकोउहल्ले जे स भिक्खू १३. भावि च, य इत्यम्भूतः स भिक्षुः १२. पुनराह---असइमिति-यो मुनिः पृथिवीसमो भवेत्, पृथिवीवत्सर्वसहः स्यात्, न पुना रागादिना पीडयते, किम्भूतो मुनिः ? असकृद्धश्रुत्सृष्टत्यक्तदेहः, असकृत्सर्वदा व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो वि भूषाया अकरणेन देहः शरीरं येन स तथाविधः, पुनराकुष्टो वा जकारादिना, हतो वा दण्डादिना, लूषितो वा खगादिना,
For Private and Personal Use Only