________________
Shri Mahavir Jain Aradhana Kendra
दश० दीपि०
॥ ९९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एव अभियुक्त इति गर्भः, अथ व्यतिरेकतः समाधानोपायमाह - पुनः स्त्रीणां सर्वासत्कार्यनिबन्धनभूतानां वशं तत्परतन्त्रतारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिवति, अतो बुद्धवचने चित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेनान्योपायासम्भवाद्वान्तं परित्यक्तं यद्विषयजम्बालं न प्रत्यापिवति न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते. १. पुढविमिति — तथा साधुः पृथ्वीं सचेतनादिरूपां न खनति स्वयं, न च खानयति परैः, एकग्रहणे तज्जातीयानामपि ग्रहणात्खनन्तमन्यं न समनुजानातीत्येवं सर्वत्र वेदितव्यम्. तथा यः साधुः सचित्तं पानीयं स्वयं न पिवति, न च पाययति परान, पुढविन खणे न खणावए सीओदगं न पिए न पीआवए ।
अगणि सत्यं जहा सुनिसिअं तं न जले नं जलावए जे स भिक्खू २.
तथाभिः षड्जीवनिकायधातकः किंवत् ? यथा सुनिशितमुज्ज्वालितं शस्त्रं जीवघातकं भवेत्, ततस्तमत्रिं यः स्वयं न ज्वालयति, परैर्न ज्वालयति, स इत्थम्भूतो भिक्षुर्भवेत्, ननु षड्जीवनिकायादिष्वध्ययनेषु पूर्वोक्तेषु सर्वत्रायमेवार्थः कथितः, किमर्थ पुनरपि सभिक्षुनामाध्ययनेऽपि स एवार्थः प्ररूप्यते ? पुनरुक्तिदोषप्रसद्गो जायते. अत्रोत्तरमाह - षड्जीवनिकायपालनापर
१ नानुजानातीति पाठान्तरम् ।
For Private and Personal Use Only
अध्य. १०
॥ ९९ ॥