________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्थंस्थं नारकादिव्यपदेशबीजं वर्णसस्थानादि सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया, एवं सिद्धो वा कर्मक्षयात्सिद्धो भवति, कीदृशः॥ सिद्धः? शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वा भवति, किम्भूतो देवः ? अल्परतः कण्ट्रपरिगतकण्डूयनकल्परतरहितः,
महर्द्धिकोऽनुत्तरवैमानिकादिः, ब्रवीमीति पूर्ववत्. ७. इति चतुर्थ उद्देशकः ४. इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयVासुन्दरोपाध्यायविरचितायां विनयसमाध्यध्ययनं सम्पूर्णम् ९. श्रीरस्तु.
अथ दशमं सभिवध्ययनं प्रारभ्यते । निक्खम्म माणाइ अ बुद्धवयणे निचं चित्तसमाहिओ हविज्जा ।
इत्थीण वसं न आवि गच्छे वंतं नो पडिआयइ जे स भिक्खू १. निक्खम्मेति-अथ सभिक्षुनामकमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-इह पूर्वाध्ययन आचारप्रणिहितो यथोचितविनयसम्पन्नो भवतीत्येतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनेषु व्यवस्थितः स सम्यग्भिक्षुरित्युच्यते, इत्पनेन सम्बन्धनायातमिदमध्ययनं व्याख्यायते, तच्चेदं-स भिक्षुभवत्, स कः ? यो निष्क्रम्य द्रव्यभावगृहात्मव्रज्यां गृहीत्वेत्यर्थः, कया ? आज्ञया, तीर्थकरगणधराणामुपदेशेन, बुद्धवचने तीर्थकरगणधरवचने नित्यं सर्वकालं चित्तेन समाहितोऽतिप्रसन्नो भवेत्, प्रवचन
१ क्वचिदिदं पदं नास्ति ।
For Private and Personal Use Only