________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥ ९६ ॥
www.kobatirth.org
विश्व, तत्र समाधानं समाधिः, विनये समाधिर्विनयसमाधिः, एवं शेषेष्वपि द्रष्टव्यम् । उक्तमेव श्लोकेन सङ्गृह्णाति - विणए इति - 'विणए इत्यादि सूत्रम् अस्य व्याख्या - विनये यथोक्तलक्षणे, अंतगादौ, तपसि बाह्याभ्यन्तररूपे, आचारे च मूलोत्तरगुणरूपे नित्यं सर्वकालं पण्डिताः सम्यक्परमार्थवेदिनः किङ्कुर्वन्तीत्याह-अभिरामयन्त्याभिमुख्येन विनयादिषु युञ्जत आत्मानं जीवं किमिति, अस्योपादेयत्वात् क एवं कुर्वन्तीत्याह-ये भवन्ति जितेन्द्रिया जितचक्षुरादिभावशत्रव एवं परमार्थः १ अथ विनयसमाधिं कथयितुं वाञ्छन्नाह - चउव्विति चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथेत्युदाहरणोचव्विा खलु विणयसमाही, तं जहा अणुसासिज्जंतो सुस्सूसइ सम्मंपडिवज्जइ, वयमाराहइ, नय भवइ अत्तसंपग्गहिए, चउत्थं पयं भवइ, भवइ अ इत्थ सिलोगो. पेहिआसासणं सुसई तं च पुणो अहिडिए । न य माणमएण मज्जई विणयसमाहिआययट्टिए २. पन्यासार्थः, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषते, तदनुशासनमर्थितया श्रोतुमिच्छति, इच्छाप्रवृत्तितः सम्यक्सम्प्र तिपद्यते सम्यगविपरीतमनुशासनं यथाविषयमवबुद्धयते स चैवं विशिष्टप्रवृत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः श्रुतज्ञानं, तद्यथोक्तानुष्ठानतत्परतया सफलीकरोति, अत एव विशुद्धप्रवृत्तेर्न च भवत्यात्मसम्प्रगृहीतः, आत्मैव सम्प्रगृहीतः सम्यक्प्रकर्षेण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना, तथानात्मोत्कर्षप्रधानत्वाद्विनयादेर्न चैवम्भूतो भवतीत्यभिप्रायः,
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अध्य० ९ उ० ४
॥ ९६ ॥