________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पन्मध्ये आख्याता, तथा सुप्रज्ञप्ता, यथैव व्याख्याता तथैव सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः. तां चैवंभूतां पजीवनिका श्रेयो मे ममाध्यतुं, श्रेयः पथ्यं हितं पठितुं श्रोतुं भावयितुं. कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः, " निमित्तकारणिहेतुषु सर्वासां प्रायो दर्शनम्' इति वचनात् हेतौ प्रथमा, अध्ययनत्वादध्यात्मानयनाच्चेतसो विशुद्ध्यापादनं, चेतोविशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति. अन्ये व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वमुपन्यस्तस्याध्ययनस्यैवोपादेयतयानुवादमा
कयरा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं धम्मपन्नती. इमा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता. सेयं मे अहिजिउं अज्झयणं धम्म
पन्नत्ती. तं जहा-पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया त्रम्. १. ततः शिष्यः प्राह कयरति-उक्तार्थमेव. अनेनैतद्दर्शयति-मानं त्यक्ता संवेगिना शिष्येण सर्वकार्येष्वेवं गुरुः प्रष्टव्यः. अथ शिष्येण प्रश्ने कृते गुरुराह-'इमेति' एतत्सूत्रमपि उक्तार्थमेव, अनेनाप्येतदर्शयति-गुणवते शिष्याय गुरुणापि उपदेशो दातव्य एव. अथ पड़जीवनिकायमाह
For Private and Personal Use Only