________________
Shri Mahavir Jain Aradhana Kendra
दझ
दीपिο
|| 2 ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यातं क्षुल्लकाचारकथाख्यं तृतीयमध्ययनम् - अथ चतुर्थ षड्जीवनिकायाख्यमध्ययनं व्याख्यायते - पूर्वोक्ताध्ययनेनास्याध्ययनस्यायं सम्बन्धः - पूर्व साधुनाचारे धृतिः कार्या नवनाचार इत्युक्तम्-अयमेव चात्मसंयमे उपायः, स चाचारः षड्जीवनिकायगोचरः, अतः षड्जीवनिकायाः प्रोच्यन्ते - तत्र सूत्रम् सुअमिति श्रुतमवधारितं मे इति मया अत्र श्रीमुधर्मस्वामी जम्बूस्वामिनं । प्राह-हे आयुष्मन् ! आयुरस्यास्तीत्यायुष्मान् तस्य संबुद्धि:, तेन जगत्प्रसिद्धेन भगवता समत्रैश्वर्यादियुक्तेन श्रीवर्धमानस्वामिनैवंप्रकारं वक्ष्यमाणमाख्यातं, केवलज्ञानेनोपलभ्य कथितम् अथवा 'आउसंतेणंति' समग्रं भगवतो विशेषणं, किंभूतेन भगवता ?
सुअं मे आउसंतेणं भगवया एवमक्खायं इह खलु छज्जीवणिया नामज्झयणं समणेणं भागवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झयणं धम्मपन्नत्ती. 'आउसंतेणं ' आयुष्मता चिरजीविना इत्यर्थः मङ्गलवचनमेतत् अथवा 'आवसंतेति पाठे मयेत्यस्य विशेषणं, किंभूतेन मया ? आवसता गुरुपादमूलसेविना. अथवा 'आमुसंतेति पाठे किंभूतेन मया ? आमृशता भगवत्पादारविन्दयुगलं मस्तकेन, अनेन गुरुविनयप्रतिपत्तिरुक्ता. किंभूतेन भगवता आख्यातमिति पृष्टे आह-एषा खलु षड्जीवनिकानामाध्ययनं श्रमणेन महातपस्विना भगवता समग्रैश्वर्यादियुक्तेन महावीरेण कषायादिवैरिजयान्महासुभटेन. किंभूतेन ? काश्यपेन काश्यपगोत्रेण प्रवेदिता ज्ञाता, न कुतश्चिदाकर्ण्य ज्ञाता, किन्तु स्वयमेव केवलज्ञानेन प्रकर्षेण विदिता ज्ञाता पुनः स्वाख्याता, सुष्ठु द्वादशप
For Private and Personal Use Only
अध्य० १.
॥ ८ ॥