SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie परीति-पुनः किम्भृताः ? परीपहा एव रिपवस्ते दान्ता उपशमं नीता यैस्ते, पुनः किंभूताः ? धूतो मोहोऽज्ञानं यस्ते, पुनः किंभूताः १ जितेन्द्रियाः शब्दादिविषयेषु रागद्वेषरहिताः, त एवंविधाः सर्वदुःखक्षयनिमित्तं प्रक्रामन्ति प्रवर्तन्ते. किंभूताः ? महर्षयः १३. अर्थतेषां फलमाह-दुक्करेति-एवं दुष्कराण्यौदेशिकादित्यागादीनि कृत्वा, तथा दुस्सहान्यातापनादीनि सहिरवा केचिद्देवलोकेषु सौधर्मादिषु गच्छन्तीति शेषः. केचन सिद्धयन्ति, तेनैव भवेन सिद्धि प्राप्नुवन्ति. किंभूताः ? नीरया निर्गतं रजोऽष्टविधं कर्म येभ्यस्तेऽष्टविधकर्मविप्रमुक्ताः, न स्वेकेन्द्रिया इव कर्मयुक्ताः. १४. ये चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति ! परीसहरिओदंता धूअमोहा जिइंदिया । सव्वदुक्त्वपहीणट्टा पक्कमति महेसिणो १३. दुक्कराई करित्ताणं दुस्सहाई सहेत्तु य । केइत्थ देवलोएसु केइ सिज्झति नीरया १४. खव्वित्ता पुव्वकम्माइं संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता ताइणो परिणिव्वुडे तिबेमि १५. इइ खुड्डुयायारकहज्झयणा तइआ ३. तेपि ततश्युत्वार्यदेशे सुकुले जन्म प्राप्य शीघ्र सिद्ध्यन्येव. एतदाह-खवित्तेति-ते देवलोकात् क्षपयित्वा कर्माण्यवशिष्टानि, केनेत्याह-संयमेनोक्तरूपेण सप्तदशभेदेन, पुनस्तपसा दादशविधेन सिद्धिमार्ग सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातार ) आत्मादीनां परिनिवान्ति सिद्धि प्राप्नुवन्ति. इति ब्रवीमि न स्वबुद्धया किन्तु तीर्थकरगणधराणामुपदेशेन. १५. इति श्रीदशवकालिकशब्दार्थवृत्ती श्रीसमयसुन्दरोपाध्यायविरचितायां क्षुल्लकाचारकथाख्यं तृतीयमध्ययनं समाप्तम्. For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy