SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org दश दीपि Nell निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः. किंभूतानां ? चशब्दात्तपसि युक्तानां, पुनः किंभूतानां ? लघुभूतविहारिणा, लघुभूतो TH अध्य०१. वायुस्तद्वदप्रतिवद्धतया विहारो येषां ते. १०. किमित्यनाचरितं यतस्त एवंभूता भवन्तीत्याह-पंचासवेति-किंभूतास्ते साधवः ? पंच च ते आश्रवाश्च पञ्चाश्रवा हिंसादयः, परि समन्ताद्ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याता यैस्ते पञ्चाश्रवपरिज्ञाताः, यतः कारणात्त एवंभूताः, अतएव त्रिगुप्ता मनोवाक्कायगुप्तिभिर्गुप्ताः, पुनः किंभूताः ? छसु संजया षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यता यत्नवंतः, पुनः किं० १ पंचनिग्रहणाः, पंचानामिद्रियाणां निग्रहणा निरोधकर्तारः, पंचासवपारण्णाया तिगुत्ता छस संजया। पंचनिग्गहणा धीरा निग्गंथा उज्जुदंसिणो ११. आयावयंति गिम्हेसु हेमंतेसु अवाउडा । वासासु पडिसंलीणा संजया सुसमाहिया १२. पुनः किंभूताः ? धीरा बुद्धिमन्तः स्थिरा वा, पुनः किंभूताः साधवः ? ऋजुदर्शिनः, ऋजुमेक्षि प्रति ऋजुत्वात्संयमस्तं पश्यन्ति उपादेयतया इति ऋजुदर्शिनः संयमप्रतिबद्धाः. ११. ते ऋजुदर्शिनः कालं प्रस्तावमधिकृत्य यथाशक्ति एवं कुर्वन्ति, तथाहि-- व आयेति-आतापयन्त्यूलस्थानादिना तापनां कुर्वन्ति, कदा? ग्रीष्मेषष्णकालेषु, पुनः कीदृशाः? हेमन्तेषु शीतका-] । लेष्वप्रावृताः प्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु वर्षाकालेषुप्रतिसंलीना एकाश्रयस्था भवन्ति, संयताः साधवः, पुनः किंभूताः सुसमाहिता ज्ञानादिषु यत्नपराः. १२. For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy