________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
९३ ॥
www.kobatirth.org
अथेन्द्रियसमाधिद्वारेण साधोः पूज्यतामाह-सक्केति नरेण कण्टका इदं मे भविष्यतीत्याशया सोढुं शक्याः किम्भूता | कण्टकाः ? अयोमया लोहमयाः, किम्भूतेन नरेण ? उत्साहवता, अर्थोद्यमवता, तथा च कुर्वन्ति केचिल्लोहमयकण्टकास्तर | णशयनमप्यर्थवाञ्छया, परं न तु वचनकण्टकाः सोढुं शक्याः, ततो निरीहः सन् कर्णसरान् वाक्कण्टकान् सहेत स पूज्यः. ६. पुनरेतदेव स्पष्टयति-मुडुत्तेति - लोहमयाः कण्टका मुहूर्तदुःखा मुहूर्तमल्पकालं यावद् दुःखदा भवन्ति, वेधकाल एव प्रायो
सक्का सहेउं आसाइ कंटया अओमया उच्छहया नरेणं । अणासए जो उ सहिज कंटए वईमए कन्नसरे स पुज्जो ६. मुहुत्तदुक्खा उ हवंति कंटया अओमया ते वि तओ सुउद्धरा । वायादुरुत्ताणि दुरुद्धराणि वेराणुबंधीणि महब्भयाणि ७.
| दुःखदानात्, तेऽपि कण्टकाः कायात्सूद्धराः, सुखेनैवोद्रियन्ते, व्रणपरिकर्म च क्रियते परं वचनेन यानि दुरुक्तानि तानि दुरुदराणि भवन्ति, दुःखेनैवोदद्भियन्ते, मनोरूपलक्षवेधनात् किम्भूतानि वचनदुरुक्तानि ? वैरानुबन्धीनि तथा श्रवणप्रद्वेषादिना | इह लोके परलोके च वैरभावजनकानि, पुनः किम्भूतानि ? अत एव महाभयानि कुगतिपातभयहेतुभूतानि ७.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अध्य० ९.
उ० ३
॥ ९३ ॥