SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरोर्निर्देशकरणशीलः, स पूज्यः. ३. अन्नायेति पुनः किञ्च साधुरज्ञातोञ्छं परिचयस्याकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरत्यटित्वानतिं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धमुद्गमादिदोषरहितं न तद्विपरीतम्, एतदपि यापनार्थ संयमभारोद्वाहिदेहपालनाय, अन्यथा समुदानं चोचित भिक्षालब्धं च नित्यं सर्वकालं न तूञ्छमप्येकत्रैव बहु लब्धं कादाचित्कं वा, एवम्भूतमपि विभागतोऽलब्ध्वाऽनासाद्य न परिदेवयेन खेदं यायात्, यथाहं मन्दभाग्यः अथवा नायं देशः शोभन इति, विभागतश्च लब्ध्वा अन्नायउंछं चरई विसुद्ध जवणडया समुआणं च निच्चं । अलअं नो परिदेवइज्जा लधुं न विकत्थई स पुज्जो ४. संथारसिज्जासणभत्तपाणे अपिच्छया अइलाभे वि संते । जो एवमप्पाणभितोसइज्जा संतोसपाहन्नरए स पुज्जो ५. प्राप्योचितं न विकत्थते न श्लाघां करोति, यथाहं महापुण्यवान्, अथवायं देशः शोभनः, यो यतिरेवं पूर्वोक्तं कुर्यात्स पूज्यः. ४. || संथारेति - किश्च यस्य साधोः संस्तारके शय्यायामासने भक्ते पाने चाल्पेच्छता अमूर्च्छया कृत्वा परिभोगादधिकस्य परिहारो वा भवेत्, क्क सति ? सति संस्तारकादीनां गृहस्थेभ्यः सकाशादतिलाभे सत्यपि यः साधुरेवमात्मानमभितोषयति, येन वा तेन वात्मानं यापयति, किम्भूतो यतिः ? सन्तोषप्राधान्यरतः, सन्तोष एव प्रधानभावे रत आसक्तः, स साधः पूज्यः५. । For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy