________________
Shri Mahavir Jain Aradhana Kendra
दश० दीपि०
॥ ९० ॥
www.kobatirth.org
कुर्यात्, तस्य गुरोः पृष्ठतो नातिदूरेण नातिशीघ्रं यायादित्यर्थः एवं स्थानं यत्र स्थान आचार्य आस्ते तस्मात्स्थानानीचं, नीचतरे स्थाने स्थातव्यमिति भावः । पुनर्नीचानि लघुतराणि कदाचित्कारणजात आसनानिं पीठकादीनि तस्मिन्नुपविष्टे तदनुज्ञातः सन् सेवेत नान्यथा तथा नीचं च सम्यगवनतमस्तकः सन्नाचार्यस्य पादौ वन्दते नावज्ञया, तथा क्वचित्प्रभादौ नीचं नम्रकायं कुर्याच्च सम्पादयेच्चाञ्जलिं न स्थाणुवत्स्तब्ध एवेति १७. एवं कायविनयं कथयित्वा वचनविनयमाह-सङ्घट्टेति-साधुर्गुरुं प्रति मिथ्यादुष्कृतपुरःसरमभिवन्द्येवं वदेत् न पुनरिति, न चाहमेवं भूयः करिष्यामीति एवं किमित्याह हे गुरो मम
संघट्टत्ता कारणं तहा उवहिणामवि । खमेह अवराहं मे वइज न पुणुत्ति अ १८. दुग्गओ वा पओएणं चोइओ वहई रहं । एवं दुबुद्धि किञ्चाणं वृत्तो वृत्तो पकुव्वई १९
Acharya Shri Kailassagarsuri Gyanmandir
मन्दभाग्यस्यापराधं दोषं क्षमस्व सहस्व किं कृत्वा ? कायेन देहेन कथञ्चित्तथाविधे प्रदेश उपविष्टं गुरुं सङ्घट्टय स्पृष्ट्वा पुनरुपाधिनापि कल्पादिनापि कथञ्चित्सङ्घट्ट. १८ एवं सर्व बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह -- दुग्गेति — दुर्गौरिव गलिबलीवर्दवत्मतोदेनारादण्डलक्षणेन चोदितः प्रेरितो विद्धः सन् वहति कापि नयति रथम्, एवं दुगौरिव दुर्बुद्धिः शिष्यः कृत्यानामाचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि उक्त उक्तः पुनः
For Private and Personal Use Only
अध्य० ९
उ० २
॥ ९० ॥