________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
अनादिनिरोधस्तोकदानाभ्याम्. ८. अथ विनयफलमाह-तहेवेति-अस्मिन् लोके नरनार्यस्तथैव विनीततियञ्च इव सुविनीतात्मानो दृश्यन्ते, कीदृश्यो नरनार्यः ? सुखमेधमानाः ऋद्धिं प्राप्ताः, पुनः कीदृश्यः ? महायशस इति पूर्ववत्, नवरं स्वाराधितगुरुजना उभयलोकसाफल्यकारिण एत इति. ९. एतदेव विनयाविनयफलमाह देवानधिकृत्य-तहेवेति-तथैव यथा नरनायोऽविनीतात्मानस्तथैव जन्मान्तरे अकृतविनया देवा वैमानिका ज्योतिष्का यक्षाश्च व्यन्तराश्च गुह्यका भवनवासिनस्त एते
तहेव सविणीअप्पा लोगांस नरनारिओ। दीसति सुहमेहता इट्टि पत्ता महायसा ९. तहेव अविणीअप्पा देवा जक्खा अ गुज्झगा । दीसंति सुहमेहन्ता आभिओगमुवडिआ १०.
तहेव सुविणीअप्पा देवा जक्खा अ गुज्झगा। दीसंति सुहमेहंता इढेि पत्ता महायसा ११. दृश्यन्ते, केन ? आगमभावचक्षुषा, किं कुर्वाणाः ? दुःखमेधमानाः, परेषामाज्ञया परेषाम् ऋयादिदर्शनेन च,कीदृशाः सन्तः? आभियोग्यमुपस्थिताः, अभियोग आज्ञादानलक्षणः, सोऽस्यास्तीत्यभियोगी, तस्य भाव आभियोग्यं कर्मकरभावमुपस्थिताः प्राप्ताः. १०. अथ विनयफलमाह-तहेवेति-तथैवैते देवादयः सुविनीतात्मानो जन्मान्तरकृतविनयाः, निरतिचारधाराधका इत्यर्थः, दृश्यन्ते सुखमेधमाना महाकल्याणादिषु ऋदिं प्राप्ता इति देवाधिपादिप्राप्तसमृद्धयो महायशसो विख्यातसद्गुणा
For Private and Personal Use Only