________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य
दश दीपि०
कार्थत्वादनुभवन्त अभियोग्य कर्मकरभावमुपस्थिताः. ५ एतेष्वेव विनयगुणमाह-तहेवेति-तथैवैते सुविनीतात्मानो विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत्,एते किमित्याह-दृश्यन्त उपलभ्यन्ते सुखमालादलक्षणमेधमाना अनु-IN भवन्त ऋद्धिं प्राप्ता इति विशिष्टभूषणालयभोजनादिभावतः प्राप्तड़यो महाशयसो विख्यातसद्गुणाः ६. अथैतदेव विनयावि
उ०२ नयफलं मनुष्यानधिकृत्याह-तहेवेति-तथैव तिर्यञ्च इवाविनीतात्मनः पूर्ववत्, लोकेस्मिन् मनुष्यलोके, नरनार्य इति प्रकटार्थ, दृश्यन्ते दुःखमेधमानाः पूर्ववत्, छाताः कशाघातव्रणाङ्कितशरीरा विकलेन्द्रिया अपनीतनासिकादीन्द्रियाः पारदारिकादय इति
तहेव सुविणीअप्पा उववज्झा हया गया। दासंति सुहमेहंता इडिं पत्ता महायसा ६. तहेव अविणीअप्पा लोगमि नरनारिओ। दीसंति दुहमेहन्ता छाया ते विगलिंदिआ ७.
दंडसत्थपरिज्जुन्ना असम्भवयणेहि अ। कलुणा विवन्नच्छन्दा खुप्पिवासपरिग्गया ८.. सूत्रार्थः.७.दंडेति-एवंविधाः साधव इह लोके पूर्वमविनयेन गृहीतानां कर्मणामनुभावेनैवंभूताः परलोके तु कुशलस्याप्रवृत्तेर्दुःखिततरा विजायन्ते, कीदृशाः ? दण्डा वेत्रदण्डादयः, शस्त्राणि खगादीनि, तैः परिजीर्णाः,परि समन्ततो दुर्बलभावमापादिताः,
HIN८८॥ A तथा पुनः कीदृशाःअसभ्यवचनैश्च खरकर्कशादिभिः परिजीर्णाः, पुनः कीदृशाः ? करुणाः करुणाहेतुत्वात्, पुनः कीदृशाः? Hel व्यापनछन्दसः परायत्ततया गतस्वाभिप्रायाः, पुनः किम्भूताः ? क्षुधा बुभुक्षा, पिपासा तृषा, ताभ्यां परिगता व्याप्ताः,
For Private and Personal Use Only