________________
Shri Mahavir Jain Aradhana Kendra
दश० दीपि०
॥ ८७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलाओ इति-अथ नवमाध्ययने विनयाधिकार एव द्वितीयोदेशकः प्रारभ्यते, पूर्व प्रथमोदेशके विनयसमाधिरुक्तः, द्वितीयोऽपि विनयाधिकारवानुच्यते, तत्र सूत्रं - दुमस्य वृक्षस्य मूलादादिप्रबन्धात्स्कन्धप्रभवः, स्थुडोत्पादः, ततः स्कन्धात्पश्चाच्छाखास्तस्य भुजाकल्पाः समुपयान्त्यात्मानं प्राप्नुवन्ति, उत्पद्यन्त इत्यर्थः, तथा शाखाभ्य उक्तस्वरूपाभ्यः प्रशाखास्तासामंशभूता विरोहन्ति जायन्ते, तथा ताभ्योऽपि प्रशाखाभ्यः पत्राणि पर्णानि विरोहन्ति, ततस्तदन्तरं से अथ द्वितीय उद्देशः प्रारभ्यते ।
मूलाओ खंधप्पभवो दुमस्स खंधाउ पच्छा समुविंति साहा । साहप्पसाहा विरुति पत्ता तओसि पुष्पं च फलं रसो अ १. एवं धम्मस्स विणओ मूलं परमो अ से मुक्खो । जेण कित्तिं सुअं सिग्घ नीसेसं चाभिगच्छइ २. जे अ चंडे मिए थद्धे दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा कहं सोअगयं जहा ३. तस्य द्रुमस्य पुष्पं च फलं च रसश्च. १. एवं दृष्टान्तमभिधाय दाष्टन्तिकयोजनामाह - एवमिति - एवं धर्मस्य परमकल्पवृक्षस्य विनयो मूलमादिप्रबन्धरूपं परम इत्यग्रो रसः से तस्य फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमादानि, अतो विनयः कर्तव्यः, येन विनयेन कृत्वा साधुः कीर्ति सर्वत्र शुभप्रवादरूपामधिगच्छति प्रामोति, पुनः श्रुतमङ्गम विष्टादि, श्लाष्यं प्रशंसास्पदीभूतं निश्शेषं सम्पूर्ण च प्राप्नोति. २. अथाविनयदोषमाह-ज इति-साधुरेतेभ्यो
For Private and Personal Use Only
अध्य०९. उ० २
॥ ८७ ॥