SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थंभति-अथ विनयसमाध्याख्यं नवममध्ययनं व्याख्यायत, तस्य नवमाध्ययनस्य चत्वार उद्देशाः, तत्र प्रथमोद्देशकमाह, इह चायं सम्बन्धः-पूर्वाध्ययने निष्पापं वचनमाचार प्रणिहितस्य सम्यस्थितस्य भवतीति तब यत्नवता भाव्यम्, इत्येतदुः तम्, इह त्वाचारप्रणिहितो यथायोग्यविनयसम्पन्न एव भवति, इत्येतदुच्यते, तथाहि-शिष्यो गुरोः सकाश आचार्याद समीपे विनयमासेवनारूपं शिक्षारूपं च न शिक्षते, नोपादत्ते, न गृहातीत्यर्थः, कस्मात् ! स्तम्भादा, कथमहं जात्यादिमान जात्यादिहीनस्य गुरोः समीपे शिक्षे! तथा क्रोधात्कथञ्चिदसत्यकरणप्रेरितो रोपादा, तथा मायातः शलं में बाधत इत्यादि अथ विनयसमाध्याख्यं नवममध्ययनं प्रारभ्यते । थंभा व कोहा व मयप्पमाया गुरुस्सगासे विणयं न सिक्खे। सो चेव उ तस्स अभूइभावो फलं व कीअस्स वहाय होइ १. कपटेन, तथा प्रमादात्प्रक्रान्तमुचितमजानन् निद्रादीनां व्यासङ्गेन, स्तम्भादीनां क्रमेणोपन्यासश्च इत्थमेवामीषां विनयस्य विघ्नतामाश्रित्य ख्यापनार्थः, तदेवं स्तम्भादिभ्यो गुरोः समीपे विनयं न शिक्षते, अन्ये त्वाचार्या एवं पठन्ति-गुरोः समीपे विनयेन तिष्ठति, विनये न वर्त्तते, विनयं नासेवत इत्यर्थः, इह स एव स्तम्भादिविनयशिक्षाविनहेतुस्तस्य जडमतेरभूतिभाव इति, अभूतेर्भावोऽभूतिभावः, असम्पदाव इत्यर्थः, किमित्याह-वधाय भवति, गुणलक्षणभावप्राणविनाशाय भवति. दृष्टान्त For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy