________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश. दीपि.
अध्य.
॥८२॥
यानरतस्य, स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्धयानं, तत्र रतस्यासक्तस्य, पुनः किम्भूतस्य साधोः ? वातुः, स्वस्य परस्योभयेषां च रक्षणशीलस्य, पुनः किम्भूतस्य साधो ? अपापभावस्य, लब्ध्यादीनां या अपेक्षा तया रहिततया शुद्ध चित्तस्य, पुनः किम्भूतस्य साधोः ? तपस्यनशनादौ द्वादशविधे रतस्य, एवंविधस्य शुद्धस्य साधोः पापं दूरे यातीति परमार्थः. ६३. ततश्च साधुः कीदृशो भवेदित्याह-स इति-स तादृशः पूर्वोक्तगुणयुक्तः साधुर्विराजते, क इव ? चन्द्रमा इव, क सति ? कृत्स्नाभ्रपुटापगमे समस्तानामभ्रपुटानामपगमे नाशे सति, अयं भावः-यथा शरत्काले चन्द्रमाः शोभते
से तारिसे दुक्खसहे जिइंदिए सुएण जुत्ते अममे अकिंचणे। विरायई कम्मघणमि अवगए कसिणभपुडावगमे चंदिमित्ति बेमि ६४.
आयारपणिही णाम अज्झयणं संमत्तं ८, तथा साधुरप्यपगतकर्मधनः समासादितकेवलालोको विराजत इत्यर्थः किम्भूतः साधुः ? दुःखसहः परीषहपीडासहः, पुनः किम्भूतः साधुः ? जितेन्द्रियः पराजितश्रोत्रादिपञ्चेन्द्रियविषयः, पुनः किम्भूतः साधुः ? श्रुतज्ञानेन युक्तो विद्यावानित्यर्थः, पुनः किम्भूतः साधुः ? अममः सर्वत्र ममतारहितः, पुनः किम्भूतः साधुः ? अकिञ्चनः किञ्चनरहितः, ब्रवीमीति पूर्ववत्. ६४. इति श्रीदशवकालिके सूत्रे श्रीसमयसुन्दरोपाध्यायविरचितायां दीपिकायामष्टमाध्ययनं सम्पूर्ण. श्रीरस्तु.
॥८२॥
For Private and Personal Use Only