SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरीक्ष्यमाणं मोहदोषा-नैनाशिनि कानीयाह-मशक्षित स्त्रीणा सम्बन्धि मात्रा दश अध्य०८ दीपिक ॥८१॥ कामरांगविवर्धनमिति, एतन्निरीक्ष्यमाणं मोहदोषान्मैथुनाभिलाषं वर्धयति, अत एवास्य प्रास्त्रीणां निरीक्षणप्रतिषेधाद्गतार्थतायामपि प्राधान्यख्यापनार्थ भेदेनोपन्यासः कृतः, एतानि कानीत्याह-अङ्गानि शिरःप्रभृतीनि, प्रत्यङ्गानि नयनादीनि, एतेषां संस्थानं विन्यासविशेषं, तथा चारु शोभनं लपितं जल्पितं प्रेक्षितं निरीक्षितं स्त्रीणां सम्बन्धि सर्वम्. ५८. विस-IN एस्विति-पुनः किञ्च साधुर्विषयेषु शब्दादिषु प्रेम रागं नाभिनिवेशयेन्न कुर्यात्, किम्भूतेषु विषयेषु ? मनोज्ञेष्विन्द्रियाणामनुकुलेषु, अमनोज्ञेषु च द्वेषं न कुर्यात, किं कृत्वा? तेषां पुद्गलानां तुशब्दाच्छब्दादिविषयसम्बन्धिनामनित्यतया परिणाम विज्ञाय विसएस मणुन्नेसु पेमं नाभिनिवेसए । अणिचं तेर्सि विनाय परिणामं पुग्गलाण य ५९. पोग्गलाण परीणामं तेसि नच्चा जहा तहा। विणीअतिण्हो विहरे सीईभूएण अप्पणा ६०. जाइ सद्धाइ निवखंतो परिआयहाणमुत्तमं । तमेव अनुपालिज्जा गुणे आयारअसंमए ६१. जिनवचनानुसारेण कथं ? विज्ञायते हि मनोज्ञा अपि क्षणादमनोज्ञतया परिणमन्ति, अमनोज्ञा अपि क्षणान्मनोज्ञतया परिणमन्ति, ततस्तयोरुपरि रागद्वेषकरणं निरर्थकमिति. ५९. एतदपि स्पष्टयन्नाह-पोग्गलाणामिति-शीतीभूतेन क्रोधादीनां त्यागात्प्रKaशान्तेनात्मना विहरेत, किं कृत्वा ? तेषां पूर्वोत्तानां पुद्गलानां परिणामं यथा मनोज्ञामनोज्ञतया भवन्ति, तथा ज्ञात्वा, किम्भूतः साधुः ? विनीततृष्णो गताभिलाषः शब्दादिषु. ६०. जाईति-पुनः किञ्च साधुस्तामेव श्रद्धामप्रतिपातितया - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy