________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धामपि नारी साधुर्न निध्यायेन्न पश्येत्, किम्भूतां नारीं ? चित्रगतां पुनः किम्भूतां नारीं ? स्वलङ्कृतामलङ्कारैः शोभिताम्, | उपलक्षणत्वादनलङ्कृतामपि न निरीक्षेत कथश्चिदर्शनयोगेऽपि भास्करमिव सूर्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेन्निवर्तयेदिति. ५५. हत्थेति - किं बहुना ? ब्रह्मचारी साधुरीदृशीमपि नारी विवर्जयेत्, किमङ्ग पुनस्तरुणीं नारीं सुतरामेव विवर्जयेत्, किंविशिष्टां नारीम् ? हस्तपादपरिच्छिन्नां यस्या हस्तौ पादौ छिन्नौ वर्तेते, पुनः किम्भूतां नारीम् ? कर्णनासाविकृत्तां, कर्णौ नासा
हत्थपायपलिच्छिन्नं कन्ननासविगप्पिअं । अवि वाससयं नारिं बंभयारी विवज्जए ५६. विभूसा इत्सिंगग्गो पणीअं रसभोअणम् । नरस्सत्तगवेसिस्स विसं तालउडं जहा ५७. अंगपच्चंगसंठाणं चारुलविअपेहिअं । इत्थीणं तं न निज्झाए कामरागविवडणं ५८.
Acharya Shri Kailassagarsuri Gyanmandir
च विकृत्ता यस्यास्तां, पुनः किम्भूतां नारीम् ? वर्षशतिकाम्, एतादृशीं वृद्धामपि वर्जयेत्, कः कानिव ? महाधनो यथा चौरान् वर्जयेत्. ५६. विभूसेति - अपिच नरस्यात्मगवेषिण एतत्सर्वं विभूषादि तालपुटविषं यथा तालमात्रव्यापत्तिकररावपकल्पं, तत्किमित्याह - विभूषा वस्त्रादिराठा शोभा, स्त्रीसंसगों येन केनचित्प्रकारेण स्त्रीसम्बन्धः प्रणीतरसभोजनं गलत्स्नेहरसभक्षणम् ५७. अंगेति पुनः किञ्च साधुः स्त्रीणामेतानि न निध्यायेन निरीक्षेत न पश्येत्, कुत इत्याह१ शीघ्रमेवेति क, पु.
For Private and Personal Use Only