SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - विज्ञं, किं कृत्वा नोपहसेत् ? तं तादृशं चाग्विस्खलितं ज्ञात्वा विविधमनेकप्रकारैलिङ्गभेदादिभिः स्खलितं विज्ञाय नोपहसेत्, । किन्त्ववं जानाति वदति च, अहो खल्वाचारादिधरस्य वचन एवं कौशलम्, इह च दृष्टिवादमधीयानमित्युक्तम्, अत | इदं गम्यते नाधीतदृष्टिवादं, तस्य ज्ञानाप्रमादातिशयतः स्खलनासम्भवात्, यद्येवंभूतस्यापि स्खलितं सम्भवति, न चैवमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां सम्भवति न चासौ हसितव्य इति. ५०. नक्खत्तमिति-पुनः किंच साधुशृहिणा पृष्टः सनेतानि गृहिणामसंयतानां नाचक्षीत न ब्रूयात्, एतानि कानीत्याह-नक्षत्रमश्विन्यादि, स्वप्नं शुभाशुभफलमनु नक्खत्तं सुमिणं जोगं निमित्तं मंतभेस। गिहिणो तंन आइक्खे भूआहिगरण पयं ५१. अन्नद पगडं लयणं भइज सयणासणं । उच्चारभूमिसंपन्नं इत्थी पसुविवजिअं ५२, भूतादि, योगं वशीकरणाादें, निमित्तमतीतादि, मन्त्रं वृश्चिकमन्त्रादि, भेषजमतिसारादीनां रोगाणामौषधम्, एतत् | षटकं किंविशिष्टमित्याह-भूताधिकरणं पदं, भूतान्येकेन्द्रियादीनि सट्टनादिनाधिक्रियन्ते व्यापाद्यन्ते ऽस्मिन्निति. ततश्च तदप्रीतिपरिहारार्थमिदं ब्रूयात, यतस्तपस्विनामत्र नक्षत्रादौ नाधिकारः. ५१. अन्नट्ठमिति-पुन: किञ्च साधुरेवं लयनं मस्थानं वसतिरूपं भजेत् सेवेत, किम्भूतं लयनम् ? अन्यार्थ प्रकृतं, न साधुनिमित्तं कृतं, तथा शयनासनमप्यन्याथ प्रकृतं संस्तारकपीठकादि सेवेत, पुनः किम्भूतं लयनम् ? उच्चारभूमिसंपन्नमुच्चारप्रस्रवणादिभूम्या संयुक्तं, कथम् | - For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy