SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जीवी, अर्थः पूर्ववत् पुनः किम्भूतः संयतः ? असम्बद्धो गृहस्थैर्नलिनीपत्रादकवत् एवंभूतः सन् भवेज्जगन्निश्रितश्चराचरसंरक्षणणप्रतिबद्धः २४. लहवित्तीति- किंभूतः साधुः ? आसुरत्वं च क्रोधभावं न गच्छेत् किं कृत्वा ? जिनशासनं श्रुत्वा, क्वचि त्स्वपक्षादौ क्रोधविपाकप्रतिपादकं वीतरागवचनमाकर्ण्य किंभूतः साधुः ? रूक्षवृत्तिः, रूक्षैर्वल्लचणकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः पुनः किंभूतः साधुः ? सुसन्तुष्टः, येन केन सन्तोषगामी, पुनः किंभूतः साधुः ? अल्पेच्छ:, न्यूनोदरतया आहारपरित्यागी सुभरः स्यादल्पेच्छत्वात् एवं दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादिति. २५ लहवित्ती सुसंतु अपिच्छे सुहरे सिआ । आसुरतं न गच्छिज्जा सुच्चा णं जिणसासणं २५. कन्न सुखेहिं सहिं पेमं नाभिनिवेसए । दारुणं कक्कसं फासं कारण अहिआसए २६. खुहं पिवास दुस्सिज्जं सीउन्हं अरई भयं । अहिआसे अवहिओ देहदुक्खं महाफलं २७. Acharya Shri Kailassagarsuri Gyanmandir कन्नेति पुनः किञ्च साधुः शब्देषु वेणुवीणासम्बन्धिषु न प्रेमाभिनिवेशयेत् न तेषु रागं कुर्यादित्यर्थः किंभूतेषु शब्देषु ? कर्णयोः सौख्यहेतुषु पुनः किं कुर्यात्साधुः ? स्पर्श प्राप्तं सन्तं कायेनातिसहेत, न तत्र द्वेषं कुर्यात्, किंभूतं स्पर्श ? दारुणं रौद्रमनिष्टमित्यर्थः पुनः किंभूतं स्पर्श ? कर्कशं कठिनम् अनेनाद्यन्तयोर्द्वयो रागद्वेषयोर्निवारणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वक्तव्यः. २६. खुहमिति - किञ्च संसारे तत्सर्वमधिसहेत, तत्किमित्याह-क्षुधं बुभुक्षां, पिपासां तृपं दुःशय्यां विषमभू For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy