________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
अध्या
दश दीपिक
म्यादिरूपां, शीतोष्णं प्रसिद्धम्, अरति मोहनीयकर्मोद्भवां, भयं व्याघ्रादिसमुद्भवं, किंभूतः साधुः ? अव्यथितोऽदीनमनाः सन् देहदुःखं महाफलं सञ्चिन्त्येति शेषः, तथा च शरीरे सत्येतद् दुःखं शरीरं वा सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति. २७. अत्यमिति-पुनः किश्च साधुराहारात्मकं सर्वमाहारजातं समस्तमेवं सति मनसापि न प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्मणा वेति, एवं सतीति किम् ? आदित्ये सूर्येऽस्तंगतेऽस्तपर्वतं प्राप्तेऽदर्शनीभूते वा पुरस्ताच्चानुद्गते प्रत्यूपस्यनुदित इत्यर्थः. २८. दिवालभ्यमानेप्याहारे किमित्याह-अतिमिति-साधुरतिन्तिणो भवेत्, अतिन्तिणो नाम अलाभेपि न यत्किञ्चनभाषी, तथा
अत्थं गयंमि आइच्चे पुरच्छा अ अणुग्गए। आहारमाइयं सव्वं मणसा वि ण पच्छए २८. अतितिणे अचवले अप्पभासी मिआसणे । हविज उअरे दंते थोव लटुं न खिसए २९.
न बाहिरं परिभवे अत्ताणं न समुक्कसे । सुअलाभे न मजिज्जा जच्चा तवस्सिबुद्धिए ३०. साधुरचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः, तथाल्पभाषी भवेत्कारणे परिमितवक्ता, तथा मिताशनो भवेत्, मितभोजी स्यात्, . , तथा उदरे दान्तः, येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिसयेद्देयं दातारं वा न हीलयेत्. २९. मदवर्जनार्थ|माह-नेति-न बाह्यमात्मनोऽन्यं परिभवेत्, सामान्येनेत्यम्भूतोऽहमिति. तथा श्रुतलाभाभ्यां श्रुतेन श्रुतज्ञानेन. लाभेनाहारादिवाप्त्या न मायेत, पण्डितोऽहं लब्धिमानहमिति. तथा जात्या तापस्येन बुद्ध्या वा न मायेत, यथाहं जातिसम्पन्नः, अहं
॥७६॥
For Private and Personal Use Only