________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एतानि कानीत्याह-उच्चारं प्रस्रवणं श्लेष्म सिंहाणजल्लं च एतानि सर्वाणि प्रसिद्धानि. १८. इत्युपाश्रयस्थानविधिरुक्तः. अथ गोचरप्रवेशनमाश्रित्याह - पावीति - साधुर्यतं यतनया गवाक्षादि विलोकनेन विना उचितदेशे तिष्ठेत् किं कृत्वा ? परस्य गृहस्थस्यागारं गृहं पानार्थं भोजनस्य वा ग्लानादेरौषधार्थं वा प्रविश्य पुनः साधुर्भितं यतनया भाषेतागमनप्रयोजनादि, परं न च रूपेषु दातृकान्तादिषु मनः कुर्यात् एवंभूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणेन रसादयोपि ग्राह्याः. १९. अथ गोचरादिगत एव साधुः केन चित्तथाविधं पृष्टः किं ब्रूयादित्याह, अथवा साधुरुपदेशस्याधिकारे सामान्येनैवमाह -
पत्रिसित परागारं पाहा भोअणस्स वा । जयं चिट्टे मिअं भासे न य रूवेसु मणं करे १९.
बहु सुइ कन्नेहिं बहु अच्छीहिं पिच्छइ । न य दिट्ठं सुअं सव्वं भिक्खू अक्खा उमरिह २०. सुवा इवा दिन लविज्जोवघाइअं । न य केण उवाएणं गिहिजोगं समायरे २१.
Acharya Shri Kailassagarsuri Gyanmandir
बहुमिति - बह्वनेकप्रकारं शोभनमशोभनं च साधुः शृणोति कर्णाभ्यां शब्दसमूहमिति शेषः, तथा वह्ननेकप्रकारमेव शोभनमशोभनं चाक्षिभ्यां पश्यति, रूपसमूहमिति शेषः परं न च दृष्टं श्रुतं सर्व स्वस्य परस्योभयस्य चाहितमपि तव पत्नी रुदती | त्येवमादिकं भिक्षुराख्यातुं कथयितुं नार्हति चारित्रस्य घातात्, अर्हति च स्वपरोभयहितं दृष्टस्ते शिष्यो राजानमुपशामयन, एतादृशं तु वचनं कथयेत्. २०. पुनरेतदेव स्पष्टयन्नाह — सुत्रमिति-साधुः श्रुतं वान्यतो यदि वा दृष्टं वा स्वयमेव वा
For Private and Personal Use Only