________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यमाचारप्रणिधिं लब्ध्वा प्राप्य भिक्षुणा साधुना यथा येन प्रकारेण विहितानुष्ठानं कर्तव्यम् १. अथ तं प्रकारमाह - पुढवीति | महर्षिणा श्रीवर्धमानेन गौतमेन वा इत्येवमुक्तं, एवं किमित्याह - एते जीवाः, एते क इत्याह- पृथिव्युदकाभिवायवः, पुनस्तृणवृक्षाः सबीजाः, एते पञ्चकेन्द्रियाः पूर्ववत्, वसाश्च प्राणिनो द्वीन्द्रियादयः, एते सर्वेऽपि जीवा ज्ञेयाः २. यतश्चैते जीवास्ततः किं कर्तव्यमित्याह - तेसिमिति - भिक्षुणैतेषां पृथिव्यादिजीवानामक्षणयोगेनाहिंसाव्यापारेण नित्यं भवितव्यं वर्तितव्यं
पुढविदअगणिमारुअ तणरुक्खस्स बीयगा । तस्सा अ पाणा जीवति इइ वृत्तं महेसिणा २. तेसिं अत्थणओएण निच्चं होअव्वयं सिआ । मणसा कायवक्केणं एवं हवइ संजए ३. पुढवं भित्तिंसिलं लेलं नेव भिंदे न संलिहे । तिविहेण करणजोएण संजए सुसमाहिए ४.
स्यात्, केन ? मनसा कायेन वाक्येन, एभिः कारणैरित्यर्थः एवं वर्तमानोऽहिंसकः सन् संयतः सम्भवति नान्यः ३ एवं सामान्येन षड्जीवनिकायस्याहिंसायां संयतत्वं कथयित्वा तद्गतविधिं विधानतो विशेषेणाह - पुढविमिति-संयतः साधुः पृथिवीं शुद्धां भित्तिं तटीं शिलां पाषाणरूपां लेष्टुमिट्टालखण्डं नैव भिद्यान्न सॅलिखेत्, तत्र भेदनं द्वैधीभावाद्व्यापादनं, सॅलेखनमीपल्लेखनं, त्रिविधेन त्रिकरणयोगेन न करोति मनसा वचसा कायेन किंभूतः संयतः ? सुसमाहितः समाधिमान् शुद्ध इत्यर्थः ४.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only