SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश अध्य.. दीपिक ॥ ७१॥ करोति, किं कृत्वा ? धूनमलं पापमलं पुराकृतं जन्मान्तरे कृतं निधूय प्रस्फोट्य, तथा परलोकमाराधयति निर्वाणलोकं यथासम्भवमनन्तरं पारम्पर्येण वा, किंविशिष्टः साधुः ? परीक्ष्यभाषी आलोच्यभाषी, पुनः किंविशिष्टः साधुः ? मुसमाहितेन्द्रियः सुप्रणिहितेन्द्रिय इत्यर्थः. पुनः किंभूतः साधुः ? अपगतचतुष्कषायः क्रोधादिकषायनिरोधकर्ता इति भावः, पुनः| किंभूतः साधुः ? अनिश्रितो द्रव्यभावनिश्रारहितः प्रतिबन्धविप्रमुक्तः, ब्रवीमीति पूर्ववत्. ५७. इति श्रीसमयसुन्दरोपाध्याय-| विरचितायां दशवकालिकशब्दार्थवृत्तौ वाक्यशुद्धयध्ययनं समाप्तम्. श्रीरस्तु ७. आयारेति-व्याख्यातं वाक्यशुद्धयध्ययनं अथाचारप्रणिधिनामाध्ययनं प्रारभ्यते । आयारप्पणिहिं लटुं जहां कायव्व भिक्खुणा । तं भे उदाहरिस्सामि आणुपुर्वि सुणेह मे १. नाम सप्तममध्ययनम्, अथाचारप्रणिधिनामकमष्टममध्ययनं प्रारभ्यते, अस्य चायमभिसम्बन्धः-इतः पूर्वाध्ययने साधुना वचनगुणदोषान् जानता निष्पापं वचनं वक्तव्यमित्युक्तं, इह तु निष्पापं वचनमाचारे स्थितस्य भवतीत्याचारे यत्नः कार्य इत्येत दुच्यत इति, अनेन सम्बन्धनायातमिदमध्ययनं व्याख्यायते, तथाहि-श्रीमहावीरदेवः स्वकीयशिष्यान् गौतमादीनेवमाहतमाचारमणिधि भे भवद्य उदाहरिष्यामि कथयिष्याम्यानुपूर्व्या परिपाट्या यूयं शृणुत मे मम कथयत इति शेषः, तं कं? चि ॥७१ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy