________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गिरं परिवर्जयेत्, किं कृत्वा ? स्ववाक्यशुद्धिं स्वकीयवाक्यशुद्धिं सदाक्यशुद्धिं शोभनां वाक्यशुदि वा संप्रेक्ष्य सम्यग्दृष्ट्वा सदा सर्वदा, तर्हि कीदृशीं वदेदित्याह-मितं स्वरतः परिणामत्तश्चादुष्टं देशकालोपपन्नादि विचिन्त्य पर्यालोच्य भाषमाणः सतां साधूनां मध्ये प्रशंसनं प्रशंसा प्रामोतीत्यर्थः. ५५. यतश्चैवं तत्तः साधुः किं कुर्यादित्याह-भासाईति-साधुरेवंविधान सन् हितानुलोमं हितं परिणाममुग्दस्मनुलोमं मनोहारि वचनं वदेत्, किं कृत्वा ? भाषायाः पूर्वकथिताया दोषान् गुणांश्च
भासाइ दोसे अ गुणे अ जाणिआ तीसे अ दुट्टे परिवजए सया । छसु संजए सामणिए सया जए वइज बुद्धे हिअमाणुलोमिअं ५६. परिक्खभासी सुसमाहिइंदिए चउक्कसायावगए अणिस्सिए । स मिगुणे धुन्नमलं पुरेकडं आराहए लोगमिणं तहा परं त्ति बेमि ५७.
सुवकसुद्धी अज्झयणं सम्मत्तं ७. ज्ञात्वा, किंविशिष्टः साधुः ? तस्या दुष्टाया भाषायाः परिवर्जकः, पुनः किंविशिष्टः साधुः १ छसु संजए, षट्सु जीवनिकायेषु संयतः, पुनः किंविशिष्टः साधुः ? श्रामण्ये श्रमणभावे चारित्रपरिणामभेदे सदा सर्वकालमुद्युक्तः, पुनः किंविशिष्टः साधुः | बुद्धः ज्ञाततत्त्वः. ५६. अथोपसंहरबाह-परिक्खभासीति-स एवंविधः साधुरेनं मनुष्यलोकं वाक्संयतत्वेनाराधयति प्रगुणी
For Private and Personal Use Only