________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संबद्धयते, पृथुका अर्धपक्कशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववत् ३४ प्रयोजने पुनर्मार्गदर्शनादावेवमालपोदित्याहरूढा इति-साधुरेवमालपेत्, एवं किमित्याह - रूढाः प्रादुर्भूताः, बहुसंभूता निष्पन्नप्रायाः, स्थिरा निष्पन्नाः उत्सृता इति वा उपघातेभ्यो निर्गता इति वा, तथा गर्भिता अनिर्गतशीर्षकाः, प्रसूता निर्गत शीर्षकाः, संसाराः सञ्जाततन्दुलादिसारा इत्येवमालपेत्, पक्काद्यर्ययोजना स्वधिया कार्या. ३५. वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-तहेवेति साधुः सङ्घडिं ज्ञात्वा, एषा पित्रादिनिमित्तं करणीया एवेति नो वदेत्, मिथ्यात्वस्योपबृंहणादोषात्, ननु सङ्घडीति कः शब्दार्थः ? उच्यते
रूढा बहुसंभूआ थिरा ओसढा वि अ । गभिआओ पसूआओ संसाराउत्ति आलवे ३५.
तहेव संखडि नच्चा किच्चं कज्जंति नो वए । तेणगं वा वि वज्झित्ति सुतित्थित्ति अ आवगा ३६. संख संखडिं बूआ पणिअवृत्ति तेणगं । बहुसमाणि तित्थाणि आवगाणं विआगरे ३७.
Acharya Shri Kailassagarsuri Gyanmandir
संखण्डयन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा सङ्घडी, तथा स्तेनकं चौरं ज्ञात्वायं वध्य इति नो वदेत्, तदनुमतेस्तेननिश्चयादिदोषप्रसङ्गात्, तथापगा नद्यः सुतीर्थाः, चशब्दाद दुस्तीर्णा एता इति केनापि पृष्टः सन्नो वदेत्, अधिकरणविघातादिदोषप्रसङ्गात्. ३६. प्रयोजन उत्पन्ने सति पुनः साधुरेवं वदेदित्याह - सङ्घडिमिति - साधुः सङ्घडिमिति ब्रूयात् साधुकथनादौ सङ्कीर्णा सङ्घडीत्येवमादि, पणितार्थ इति तथा स्तेनकं वदेच्छैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणि
For Private and Personal Use Only