________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
दश दीपि०
खाद्यानि बद्धास्थीनि गर्ताप्रक्षेपकोदवपलालादिना विपाच्य भक्षणयोग्यानीति, तथा वेलोचितानि पाकातिशयतो ग्रहण- अध्य० ७. कालोचितानि, अतः परं कालं न विषहन्त इत्यर्थः, तथा दालान्यबद्धास्थीनि कोमलानीति, तथा दैधिकानीति पेशीसम्पादनन दैधीभावकरणयोग्यानि वेति नो वदेत, दोषाः पुनरत्रैते-ऊर्ध्व च नाश एवामीषा न शोभनानि वा प्रकारान्तरभांगेनेत्यवधार्य गृहिप्रवृत्त्याधिकरणादय इति. ३२. प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह-असंथडेति-असमर्था एते आम्रा अति भारेण नम्रा न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षाणामुपलक्षणम्, एतेन पक्कार्थ उक्तः, तथा बहूनि
असंथडा इमे अंबा बहुनिव्वडिमा फला। वइज्ज बहु संभूआ भूअरूव त्ति वा पुणो ३३.
तहेवोसहिओ पक्काओ नीलिआओ छवीइ अ। लाइमा भज्जिमाउत्ति पिहुखजत्ति नो वए ३४. । निर्वतितानि बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः वदेवहुसंभूताः, बहूनि संभूतानि रूपाणि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत, भूतानि रूपाण्यवद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति. ३३. पुनराह-तहेति-तथैव तेनैव प्रकारेणौषधयः शाल्यादिलक्षणाः पक्का इति नो वदेत्, तथा नीलाश्छवय इति वल्लचवलकादिफललक्षणाः, तथा लवनवत्यो
INSI॥६६॥ लवनयोग्याः, भर्जनवत्य इति भर्जनयोग्याः, तथा पृथुकभक्ष्या इति नो वदेत्, पृथुकभक्षणयोग्या इति नो वदेदिति पदं सर्वत्र
For Private and Personal Use Only