________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रज्ञावान् साधुरेवंविधां भूतोपघातिनीं प्राणिसंहारकारिणीं भाषां न भाषेत, एवं कामित्याह - एतेषु वृक्षेष्वासनमासन्दकादि, शयनं पर्यङ्कादि, यानं युग्यादि, भवेद्वा किञ्चिदुपाश्रये वसतौ, अन्यद्वा द्वारपात्रादि, दोषाश्चात्र तद्वनस्वामी व्यन्तरादिर्वा कुप्येत्, सलक्षणो वा वृक्ष इति गृह्णीयात् अनियमितभाषिणो लाघवं चेत्यादयः २९. अत्रैव विधिमाह — तहेवेति वस्तुतः पूर्ववदेव, नवरं महतो वृक्षान वीक्ष्यं प्रज्ञावान् साधुरेवं भाषेत. ३० एवं किमित्याह -- जाइमन्ता इति - साधुरिति वदेत्, इतीति किम् ? एते वृक्षा जातिमन्त उत्तमजातीया अशोकादयोऽनेकप्रकारा वा उपलभ्यमानस्वरूपाः, पुनः दीर्घा नालिकेरी
तव गंतुमुज्जाणं पव्वयाणि वणाणि अ । रुक्खा महल पेहाए एवं भासिज्ज पन्नवं ३०. जाइमंता इमे रुक्खा दीहवट्टा महालया । पयायसाला वडिमा वए दरिसणित्ति अ ३१. तहा फलाई पक्काई पायखज्जाइ नो वए। वेलोइयाई टालाई वेहिमाइत्ति नो वए ३२.
Acharya Shri Kailassagarsuri Gyanmandir
प्रभृतयः पुनर्वृत्ता नन्दिवृक्षादयः, पुनर्महालया वटादयः, पुनरेते प्रजातशाखा उत्पन्न डाला विटपिनः प्रशाखावन्तः पुनरेते दर्शनीया इति वदेत्, एवमपि कदा वदेत् ? प्रयोजने विश्रमणतदासन्नमार्गकथनादावुत्पन्ने सति, अन्यदा नेति ३१. पुनः किं न वदेदित्याह — तहेति साधुरिति नो वदेत्, इतीति किं ? तथा फलान्यास्रादीनि पाकप्राप्तानि जातानि तथा पाक१ दृड्डेति पाठान्तरम् ।
For Private and Personal Use Only