SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्तन्ते तत्रैषां शब्दानामर्थस्त्वेवं तत्र मातुः पितुर्या माता सा आर्थिका, तस्या अपि माता अन्या सा प्रार्थिका, अन्येषां पदार्थ : सुगम एव. १५. हल इति - पुनः किञ्च साधुः स्त्रियं प्रति नैवं होलादिशब्दैरालपेत्. कथम्? एवमालपनं कुर्वतः साधोः | स्वगर्हतत्प्रद्वेषवचनलाघवादयो दोषा भवन्ति, के ते होलादिशब्दा इत्याह- पूर्व ये उक्ताः पुनः हले हले इत्येवमन्ने इति, तथा भट्टे स्वामिनि, गोमिनि, होले, गोले, वसुले, इति, एतान्यपि नानादेशापेक्षया स्त्रीणामामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते. १६. अथैवं पूर्वोक्तप्रकारेणालपनं न कुर्यात्तर्हि कथं कुर्यादित्याह -- नामेति-साधुर्नामधेयेन नानैव हले हलित्ति अन्नित्ति भट्टे सामिणि गोमिअ । होले गोले वसुलित्ति इत्थिअं नेवमालवे ९६. नामधिज्जेण णं बूआ इत्थीगुत्तेण वा पुणो । जहारिहमभिगिज्झं आलविज्ज लविज्ज वा १७. अजए पजए वा वि बप्पो चुल्ल पिउत्ति अ । माउला भाइणिज त्ति पुत्ते णत्तुणिअत्ति अ १८. कचित्कारणे एतां स्त्रियं ब्रूयाद्यथा हे देवदत्ते इति, अथ नाम्नोऽस्मरणे गोत्रेण वा ब्रूयात् स्त्रियं यथा हे काश्यपगोत्रे इति, परं यथायोग्यं यथार्हमभिगृह्य वयोदेशैश्वर्याद्यपेक्षया गुणदोषानालोच्य तदालपेत् लपेदा, इषत्सकृद्वा लपनमालपनं, लपनं वारंवारम्, अतोऽन्यथा, तत्र च या वृद्धा मध्यदेशे ईश्वरा धर्मप्रिया अन्यथोच्यते धर्मशीला इत्यादिना, अन्यथा च यथा न लोकोपघात इति. १७. उक्तः स्त्रियमधिकृत्यालपननिषेधो विधिश्व साम्प्रतं पुरुषमधिकृत्याह--अज्जए इति । साधुरिति नं For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy