________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥ ६३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थैव काणं भिन्नाक्षं पुरुषं प्रत्ययं काण इति नो वदेत्, तथा पण्डकं प्रत्ययं पण्डको नपुंसक इति नो वदेत्, तथा व्याधिमन्तं प्रत्ययं रोगीति नो वदेत्, तथा स्तेनं चौरं प्रत्ययं चौर इति नो वदेत्. कुतः ? अप्रीतिलज्जानाशस्थिररोगबुद्धिविराधनादिदोषा अनुक्रमेण भवन्ति. ११. १२. ततः किं कर्तव्यमित्याह - एएणेति - प्रज्ञावान् बुद्धिमान् साधुस्तमर्थ न भाषेत, किंभूतः साधुः ? बुद्धिमान् आचारभावदोषज्ञः, आचारभावस्य दोषान् जानातीत्याचारभावदोषज्ञः, तमर्थ कं ? येनैतेनान्येन वा उक्तेन कथितेनार्थेन केनचित्प्रकारेण परोऽन्य उपहन्यते पीडावान् भवति. १३. पुनः साधुः कीदृशीं भाषां न भाषेत इत्याह-तहेवेति बुद्धिमान
एएणण अणं परो जेणुवहम्मइ । आयारभावदोसन्नू न तं भासिन पन्नवं १३.
तव होले गोलित्ति साणे वा वसुलित्ति अ । दुम्मए दुहए वा वि नेवं भासिज्ज पन्नवं १४.
एजिए वा अम्मो माउसिअत्ति अ । पिउस्सिए भायणिज्जत्ति धूए णत्तुणिअत्ति अ १५. साधुस्तथैव तां भाषां न भाषेत, तां कामित्याह-होल १ गोल २ इति, श्वा ३ वसुल ४ इति इमक ५ इति, दुर्भग इति, इह |होलादिशब्दास्तत्तद्देशेषु प्रसिद्धनिष्ठुरतादिवाचका अप्रीत्युत्पादकाश्च, अतस्तेषां प्रतिषेधः प्रोक्तः १४. इति स्त्रीपुरुषयोः सामान्येन भाषणनिषेधः कृतः, अथ स्त्रियमाश्रित्याह- अज्जिए इति । साधुरेतानि वचनानि न वदेत्, तानि कानि तदाह- हे आर्थिके, हे प्रार्थिके, वा हे अंब, हे मातृष्वसः, हे पितृष्वसः, हे भागिनेय, हे दुहितः, हे नप्ति, एतानि वचनानि स्त्रिया आमन्त्रणे
For Private and Personal Use Only
अध्य० ७
॥ ६३ ॥