________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञावान बुद्धिमान, का ? साधुः, एवमसत्यामृषामुक्तलक्षणां गिरं भाषां भाषेत, ब्रूयात्, किंभूतां गिरम् ? सत्याम् इयं च भाषा सावद्यापि कर्कशापि भवत्यत आह, किंभूतां गिरम् ? अनवद्याम, अवयं पापं तेन रहितां पुन: किंभूतां गिरम् । अकर्कशा कठोरवचनरहिता, किं कृत्वा भाषेत ? समुत्प्रेक्ष्य स्वस्य परस्य चोपकारकारिणीति बुद्धया पर्यालोच्य, पुनः । किंभूतां गिरम् ? असन्दिग्धां स्पष्टां तत्कालं प्रतिपत्तिहेतुम् ३.: साम्प्रतं सत्यामृषाभाषाप्रतिषेधार्थमाह-एअमिति-धीरी बुद्धिमान साधुरतं चार्थ पूर्व प्रतिषिद्धं सावद्यकर्कशवचनविषयं चैतजातीयमेतत्सदृशं प्राकृतत्वाद्यस्तु नामयति शाश्वतम्,
एअंच अट्ठमन्नं वा जंतु नामेइ सासयं । स भासं सच्चमोसं च तं पि धीरो विवज्जए ४.
वितहं पितहामुत्तिं जं गिरं भासए नरो। तम्हा सो पुट्टो पावणं किं पुणं जो मुसं वए ५. अत्र य एवं कश्चिदों नामयति, कोऽर्थः ? अननुगुणं करोति, कोऽर्थः ? मोक्षमनुकूलं न करोति, स शाश्वतं मोक्षमाश्रित्य पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपि पूर्वोक्ताम्, अपिशब्दात्सत्यापि या तथाभूता, तामपि भाषां विवर्जयेत्. ४.साम्प्रतं मृषाभाषायाः संरक्षणार्थमाह-वितहमिति-यो नरो वितथमसत्यं तथामूर्त्यपि कथश्चित्तस्वरूपं वस्तु पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते, ययेयं स्त्री आगच्छति गायति वेत्यादिरूपाम्, असावपि नरस्तस्माद्भाषणादेवभूताद्भाषणात् पूर्वमेव भाषणाभिसन्धिकाले पापेन कर्मणा स्पृष्टो बद्धः किं पुनर्यो मृपा प्राणघातकारिणीं वाचं वदेत, स
For Private and Personal Use Only