________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्माणो विमानानि सौधर्मावतंसकादीन्युपयान्ति सामीप्येन गच्छन्ति, किंविशिष्टाः साधवः १ सदोपशान्ताः सर्वकालमेव क्रोधरहिताः, पुनः किं० साधवः ? अममाः सर्वत्र ममत्वशून्याः पुनः किं० साधवः ? अकिञ्चना हिरण्यादिद्रव्येण मिथ्यात्वादिभावेन च किञ्चनेन मुक्ताः पुनः किं० साधवः ? स्वात्मीया विद्या स्वविद्या परलोकोपकारिणी केवलश्रुतरूपा, स्वविद्या चासौ विद्या च स्वविद्यविद्या, तया स्वविद्यविद्यया अनुगता युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्या, पुनः किं० साधवः १ यशस्विनः, शुद्धेन परलोकसम्बन्धिना यशसा सहिताः किं० साधवः ? ऋतौ प्रसन्ने परिणते शरत्काअथ वाक्यशुद्धयाख्यं सप्तममध्ययनं प्रारभ्यते ।
चउन्हं खलु भासाणं परिसंखाय पन्नवं । दुन्हं तु विणयं सिक्खे दो न भासिज्ज सव्वसो १.
लादौ विमल इव चन्द्रमाः, चन्द्रमा इव विमला इत्येवकल्पास्ते भावमलरहिता इत्यर्थः, ब्रवीमीति पूर्ववत् ६९ इति दशवेकालिकसूत्रे धर्मार्थकामाख्ये षष्ठेऽध्ययने श्रीसमयसुन्दरोपाध्यायविरचिता शब्दार्थवृत्तिः समाप्ता. ६. चउन्हमिति - व्याख्यातं धर्मार्थकामकथा नामकं षष्ठमध्ययनम्, अथ वाक्यशुद्धिनामकं सप्तममध्ययनं व्याख्यायते, अस्याध्ययनस्य पूर्वाध्ययनेनायं सम्बन्धः - पूर्वाध्ययन एवमुक्तं, गोचरीप्रविष्टस्य साधोः केनापि पृष्टुं त्वं स्वकीयमाचारं कथय ? तदा तेन स्वाचारं जानतापि महाजनसमक्षं विस्तरतस्तत्रैव न वक्तव्य आचारः, किन्तूपाश्रये गुरवः कथयिष्यन्तीति वक्तव्यम्, इह सप्तमेऽध्ययने
For Private and Personal Use Only