SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वत्र योग्य क्षेत्रे काले चोपधिनागमोक्तन वस्त्रादिना, कुतः ? ते परिग्रहे वस्त्रादिरूपे ममत्वं न कुर्वन्तीत्याह-यतस्ते भगवन्त आत्मनोऽपि देह आत्मनो धर्मकायेपि ममत्वमात्मीयाभिमानं विशिष्टप्रतिवन्धसङ्गतिं न कुर्वन्ति वस्तुनस्तत्त्वस्य ज्ञानात,किभू|नेन वस्त्रादिना ! तिष्ठतु दूरे तावदन्यत्सर्व, देहवत्परिग्रहेपि न ममत्वमात्मीयाभिमानं विशिष्टप्रतिबन्धसङ्गतिं न कुर्वन्ति. ||२२. उक्तः पञ्चमः स्थानविधिः, अधुना षष्ठस्थानविधिमाह-अहो इति-अहो इत्याश्चयें, तपःकर्म तपोऽनुष्ठानं सर्वतीर्थकरैव वर्णितं देशितं, किंविशिष्टं तपःकर्म ? नित्यमपायस्याभावेन गुणवृद्धिसंभवादप्रतिपात्येव, किंविशिष्टं तप इत्याह-या च वृत्ति अहो निच्चं तवो कम्मं सव्वबुद्धेहिं वन्नि । जा य लज्जासमा वित्ती एगभत्तं च भोअणं २३. संति मे सहमा पाणा तसा अदुव थावरा । जाइं राओ अपासंतो कहमेसणिअंचरे २४. । || वर्तनं देहपालना, किम्भूता वृत्तिः ? लज्जासमा लज्जा संयमस्तेन समा सदृशी तुल्या, संयमाविरोधिनीत्यर्थः । च पुनरकं भक्तं भोजनमेकभक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, तत्र द्रव्यत एकं एकसख्यानुगतं, भावत एक कर्मबन्धस्याभावेना द्वितीयं, तदिवस एव रागादिरहितस्य, अन्यथा भावत एकत्वस्याभावादिति. २३. अथ रात्रिभोजने प्राणानामतिपातसम्भवेन कर्मवन्धेन सह सद्वितीयतां दर्शयति-संतीति-इमे एते प्रत्यक्षमुपलभ्यमानस्वरूपाः प्राणिनः सन्ति जीवा वर्तन्ते, किंविशिष्टाः प्राणिनः ? मूक्ष्माः श्लक्ष्णाः, के ते ? असा द्वीन्द्रियादयः, अथवा स्थावराः पृथिव्यादयः, यान् प्राणिनो रात्रौ चक्षुषा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy