SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कार्यमित्यादिरूपं,तथा परार्थ वा परनिमित्तं वा एवमेव पूर्ववत्.तथा क्रोधाद्वा त्वं दास इत्यादिरूपम्,एकग्रहणेन तनातीयानां |ग्रहणमिति न्यायात, मानात, कथम् ? अबहुश्रुत एवाह, बहुश्रुत इत्यादिरूपं, मायातो वा, कथं ? भिक्षाटनस्यालस्येन मम पादपीडा वर्तत इत्यादिरूपं,लोभादा,कथं? शोभनतरस्यान्नस्य लाभे सत्यन्तप्रान्त (स्या) स्थाहारस्यैषणीयत्वेप्यनेषणीयमिदमि-| त्यादिरूपं, यदि वा भयात्,कथं? किश्चित्पापं कृत्वा प्रायश्चित्तभयान्न कृतं मयेति वदति,एवं हास्यादिष्वपि योजना कार्या.१२. | किमित्येतदेव मृषावदनं नेत्याह-मुसेति-मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिर्गर्हितो निन्दितोऽस्ति, सर्वत्र तापकारि मुसावाओ उ लोगम्मि सव्वसाहहिं गरिहिओ। अविस्सासोअ भूआणं तम्हा मोसं विवज्जए १३. चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुँ। दंतसोहणमित्तं वि उग्गहंसि अजाइया १४. |त्वात्प्रतिज्ञातस्यापरिपालनात्, पुनर्मपावादादविश्वास्यो विश्वसनीयश्च भूतानां प्राणानां मृपावादी भवेत्, यस्मादेवं तस्मात्साधु: मषावादं विवर्जयेत्. १३. उक्तो द्वितीयस्थानविधिः, साम्प्रतं तृतीयस्थानविधिमाह-चित्तेति-साधवोऽयाचित्वा कदाचनापि न किमपि गृहन्ति, यतः साधूनां सर्वमवग्रहयाचने गृहस्थैर्दत्तं ग्राह्य नान्यथा, किं तदाह-चित्तवद् द्विपदादि, अचित्तवद्वा Mall हिरण्यादि, अल्पं वा मूल्यतःप्रमाणतश्च, यदि वा बहु मूल्यप्रमाणाभ्यामेव, किंबहुना? दन्तशोधनमात्रमपि तथाविधं तृणाद्यपि, For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy