SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir B संयमस्थानानि वक्ष्यमाणलक्षणान्याश्रित्यापराध्यति, तत्सेवनयापराधं प्रामोति, कथमपराध्यतीत्याह-तत्रान्यंतरेष्टादशानामसंयमस्थानानां मध्ये एकतरस्मिन्नपि स्थाने वर्तमानः प्रमादेन निर्ग्रन्थत्वान्निभेन्यभावाभ्रश्यति, निश्चयनयेनापति, कः ? |पूर्वोक्तो वाल इति. ७. कानि पुनस्तानि स्थानानीत्याह-वयेति-व्रतषटकं प्राणातिपातविरमणमृषावादविरमणादत्तादानविरमणब्राह्मविरमणपरिग्रहविरमणरात्रिभोजनविरमणरूपं, तथा कायषट्कं पृथिव्यप्तेजोवायुवनस्पतित्रसकायरूपम्, अकल्पकः शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः गृहिभाजनं गृहस्थसम्बन्धिकांस्यभाजनादि प्रतीत, पर्यड़कः शयनी वयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलियंगनिसज्जा य सणाणं सोहवजणं ८. तथिमं पढमं ठाणं महावरिण देसि। अहिंसा निउणा दिहा सव्वभूएस संजमो ९. यविशेषः प्रतीतः, निषद्या च गृह एकानेकरूपा, स्नानं देशतः सर्वतश्च देधा. शोभावर्जनं च विभूषापरित्यागः, वर्जनशब्दः प्रत्येकमभिसंवद्धयते, स्नानवर्जनमित्यादि. ८. गुणा अष्टादशस्थानेष्वखण्डास्फुटिताः कर्तव्यास्तत्र विधिमाहतथिममिति-तत्राष्टादशविधस्थानगणे व्रतषट्के वा महावीरेण भगवतेदं वक्ष्यमाणलक्षणं प्रथम स्थानमनासेवनद्वारेण देशितं कथितं, किं तदित्याह-अहिंसा, न हिंसा अहिंसा जीवदया, इयं च सामान्यतःप्रभूतैर्दर्शितेत्यत आह, किंभूताहिंसा ! निपुणा, आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा नागमद्वारेण देशिता, अपि तु दृष्टा साक्षार्मसाधनत्वेनोप For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy