SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निभृतात्मानोऽसंभ्रान्ता बद्धाञ्जलय इति द्वितीयगाथाया व्याख्यानं किम्भूतं साधुं ? नाणदंसणसम्पन्नं ज्ञानं श्रुतज्ञानादि, दर्शनं च क्षायोपशमिकादि. ताभ्यां सम्पन्नं संयुक्तं पुनः किम्भूतं साधुं ? संयमे पञ्चानामाश्रवाणां विरमणादौ तपसि चानशनादौ रतमासक्तं, पुनः किम्भूतं साधुम् ? उद्याने कचित्साधूनामुपभोगयोग्यस्थाने समवसृतं स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति प्रथमगाथार्थः १, २. अथ स साधू राजादिभ्यः पृच्छकेभ्यः किं वदेदित्याह - तेसिमिति-स गणी साधुस्तेभ्यो राजादिभ्य आख्याति कथयति किम्भूतः साधुः ? निभृतोऽसम्भ्रान्त उचितधर्मकथास्थित्या, किम्भूतः साधुः ? इन्द्रियनो सिं सो निहुओ तो सव्वभूअसुहाव हो । सिक्खाए सुसमाउत्तो आयक्खड़ विअक्खणो ३. हंदिधमत्थकामाणं निग्गंथाणं सुणेह मे। आयारगोअरं भीमं सयलं दुरहिट्टि ४. Acharya Shri Kailassagarsuri Gyanmandir इन्द्रियदमनेन पुनः किम्भूतः साधुः ? सर्वभूतसुखावहः सर्वप्राणिहित इत्यर्थः पुनः किम्भूतः साधुः ? शिक्षया ग्रहणासेवना रूपया सुष्ठु भव्यरीत्या समायुक्तः, पुनः किम्भूतः साधुः ? विचक्षणः पण्डित इति गाथात्रयार्थः ३. किं वदेदित्याह - हंदीतिहंदीत्युप (प्र) दर्शने, हे राजादयः ! यूयं धर्मार्थकामानामाचारगोचरं क्रियाकलापं मत्समीपात् शृणुत इत्युक्तिः, धर्मश्चारित्रधर्मादिस्तस्यार्थः प्रयोजनं मोक्षस्तं कामयन्ते वाञ्छन्ति विशुद्धविहितानुष्ठान करणेनेति धर्मार्थकामा मुमुक्षवस्तेषां किम्भूतानां धर्मार्थकामानां निर्ग्रन्यानां वाह्याभ्यन्तरग्रन्थिरहितानां किम्भूतमाचारगोचरं ? भीमं कर्मशत्रणामपेक्षया रौद्रं पुनः किम्भूतमा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy