________________
Shri Mahavir Jain Aradhana Kendra
दश० दीपि
॥ ४९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्य, केभ्यः सकाशादित्याह - संयतेभ्यः साधुभ्यः किंविशिष्टेभ्यः संयतेभ्यः, १ बुद्धेभ्यो ज्ञाततत्त्वेभ्यः, ज्ञातार्थेभ्यः न द्रव्यसाधुभ्यः सकाशात्, किम्भूतो भिक्षुः ? सुप्रणिहितेन्द्रियः श्रोत्रादिभिरिन्द्रियैर्गाढं तदुपयुक्तः पुनः किम्भूतो भिक्षुः ? तीव्रलज्जः, तीव्रा लज्जानाचारकरणे यस्य स तीव्रलन उत्कृष्टसंयम इत्यर्थः पुनः किंभूतो भिक्षुः ? गुणवान् पूर्वोक्तप्रकारेण साधुगुणैः सहितः, ब्रवीमीति पूर्ववत्. ५० इति पिण्डैषणाध्ययने द्वितीयोदेशकः २. पिण्डैषणाध्ययनं समाप्तम् ५. नाणेति व्याख्यातं पिण्डैषणाध्ययनमधुना महाचारकथाख्यमध्ययनमारभ्यते, अस्य चाध्ययनस्यायमभिसम्बन्धः - इहेतः पूर्वाध्ययने साधोर्भिक्षावि अथ महाचारकथाख्यं षष्ठमध्ययनं प्रारभ्यते । नाणदंसणसंपन्नं संजमे अ तवे रयं । गणिमागमसंपन्नं उज्जाणम्मि समोसढं. १
रायाणो रायमच्चा य माहणा अदुवखत्तिआ । पुच्छंति निहुअप्पाणो कहं मे आयारगोयरो २. शुद्धिरुक्ता, इह तु गोचरप्रविष्टेन सता स्वस्याचारं पृष्टेनाचारज्ञेनापि महाजनसमक्षं तत्रैव स्थाने विस्तरतो न कथयितव्यम्, अपि तूपाश्रये गुरवः कथयिष्यन्तीति वक्तव्यम् इत्येतदुच्यते-- इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति तथाहि — गाथा - त्रयेणोक्तिमेलनं, राजानो नरपतयः, राजामात्याश्च मन्त्रिणः, ब्राह्मणाः प्रसिद्धाः, 'अदुवत्तिं' तथा क्षत्रियाः श्रेष्ठयादयः साधुं प्रतीति पृच्छन्ति, इतीति किं ? कथं मे भवतामाचारगोचरः क्रियाकलापः १ यं प्रति त्वं स्थितोसि किम्भूता राजादयः,
For Private and Personal Use Only
अध्य० ६
॥ ४९ ॥