________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 5131
साभू नाम्नी उतज्जाया रूप लज्जावती सती। वस्तासु रजनौ तस्याः सूतौ जनमनोहरो ॥ ४१ ।। पार्श्वभार्या द्वितीया या सूहो नाम्नीति तत्सुतः । ईश्वराह्वो कलावास: कलुषोपेतमानसः ॥ ४२ ॥ साधुघोषाभिधानस्य स्ववंशाम्वरभास्करः । साट्ट नाम्नास्ति सद्भायी शीलानेककलालया ॥ ४३ ।। तस्या अङ्गरुहौ ख्याती सत्यभूषविपूषितौ । लक्ष्मीवन्तो महान्तौ तौ पात्रदानरतौ हितो ।। ४४ ॥ तयो बाल्यास्ति संघेको नृसिंहः पद्मसिंहकः । चकार नेमिनाथस्य यानां यो दुःखहारिणीं ॥ ४५ ॥ तत्कलनं लसद्गानं पद्मश्री मकामदं । गृहे पाने समायाते यदा नन्दयते चिरम् ॥ ४६ ॥ तस्य पुना स्त्रयः सन्ति दीर्घायुषो भवन्तु ते । हेमराजो गजमल्लोऽपरश्रवणसंज्ञकः ॥ ४७ ॥ चोधा पुत्रो द्वितीयोऽस्ति रुला नामा गुणाकरः । रुलश्रीमहलालस्य देवराजाख्य अङ्गजः ॥ ४८ ।। एतैः श्रीसाधुपार्श्वस्य योधाख्यस्य च कायजः । वसद्भिर्जुजनुस्थाने रम्ये चैत्यालयवरैः ।। ४६ ॥ चहुमान कुलोत्पन्ने राज्यं कुर्वन्ति भूपतौ।। श्रीमत् समषसानाख्ये न्यायान्यायविचारके । ५० ।। सूरि श्रीजिनचन्द्रस्य पादपङ्कज षट्पदैः । साधुभीमादिभिः सर्वैः साधुपद्मादिभिस्तथा ॥ ५१ ।। कारितं श्रुतपञ्चम्या महदुद्यापनं च तैः । श्रीमद्देशव्रताधारी नरसिंहोपदेशतः ।। ५२ ॥ तदा तैजिन विम्बानामभिषेकपुरःसराः । कारि चर्चा महाभक्तता यथायुक्ति च सोत्सवः ।। ५३ ॥ शृङ्गार कलसादीनि नावासेछ (षु) च पञ्चसु । क्षिप्तानि पञ्च पञ्चैव चैत्योपकारणानि च ।। ५४ ॥ एतच्छास्त्रादि भक्ता तैः ज्ञानदानमदायि च । ब्रह्म श्रीनरसिंहाख्य तिहूणादि यतीशिने ॥ ५५ ।। चतुर्विधाय संघाय सदाहारश्चतुर्विधः ।। प्रादाय्यौषधानं च वस्त्रोपकरणादि च ।। ५६ ।। मिनाय++हीनेभ्यः प्रीतितुष्टिकृपादि च । दानं (द) प्रदत्तमित्यादि धनव्ययोव्याधायि तैः ।। ५७ ।। इत्यं सप्तक्षेत्रां वपते यो दानमात्मनो भक्तता। लभते तदनन्तगुणं परत्न सोऽनापि पूज्यः स्यात् ॥ ५८ ।।
For Private and Personal Use Only