________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[512 ]
श्रीमान् पण्डितदेवोऽस्ति दाक्षिणाभ्यो द्विजोत्तमः । यो योग्यः सूरिमन्त्राय वैयाकरण-ताकिकः ।। २३ ।। अग्रोतवंशजः साधुर्लवदेवाभिधानकः । तत्सुतोद्धरणा संज्ञा तद् भार्या भिठ्ठही मता ॥ २४ ॥ तत् पुत्रो जिनचन्द्रस्य पादपङ्कजषट्पदः । मिहाख्यः पण्डितस्त्वस्ति श्रावकवतभावकः ।। २५ ।। तदन्वयेऽथ खण्डेलवंशे श्रेष्ठीयोगात्रके । पद्मावत्याः समाम्नाये यक्षा पार्श्वजिनेशिनः ।। २६ ।। साधु श्रीमोहनाख्योऽभूत् संघभार धुरंधरः । तत्पुत्रो रावणो नाम पञ्चाङ्गव्रतपालकः ।। २७ ।। तस्य पुत्रौ समुत्पन्नौ पार्श्वबोधातिधानको । कल्पवृक्षसमौ दाने जिनपादाब्ज षट्पदौ ।। २८ ।। साधोः पार्श्वस्य भार्या भूदाद्यापद्मिनीसंज्ञका । पद्मालयस्य पञव सती पद्मानना मता ॥ २६ ॥ सूहो नाम्नी द्वितीयाभूत् या सौभाग्येन पार्वती। रति रूपेण शीलेन सीतां जितवती सती ।। ३० ।। साधुन्याः सन्ति पद्मिन्या स्त्रयः पुत्राहितावहाः । रूपवन्त: कलावन्तो दयावन्तः प्रियंवदा: ।। ३१ ।। तत्राद्यः साधुभीमाख्यो निजवंशविभूषणः । उपार्जयति वित्तं यः पात्रदानाय केवलम् ।। ३२ ।। रुक्मिणी नामनी तस्य गेहिनी शीलशालिनी । स्वतवाचा कोकिला जिग्ये कान्त्याभास वितुर्जया ।। ३३ ।। चत्वारः सन्ति तत्पुत्त्रास्तोस्था तेजाभिधानको । भोजाधिउराजनामानौ प्रफुल्लकमलाननाः ।। ३४ ॥ तोहाख्यस्य मता भार्या तोलश्रीः श्रीनिवासिनी । साचाभिधोऽस्ति तत्पुत्रो दीर्घायुः स भवेदिह ।। ३५ ।। पत्नी तेजाभिधानस्य तेजश्रीलर्जयान्वितः । भोजाख्यस्य तथा भार्या भोजश्रीभक्तिकारिणी ॥ ३६ ।। पार्श्वसाधो द्वितीयोऽस्ति नेमाख्यो नियमालयः । (खेतानामातनद्भवः)श्रीमान् विनयसम्पन्नः सज्ञानानन्ददायकः ।।३७।। गेहिनी तस्य नीकाख्या रति वर्वा मन्मथस्य वै । या जिगाय स्वनेत्राभ्यां स्फुरद्भां चकितां मृगीं ।। ३८ ।। तस्याः पुत्रोऽस्ति बीजाख्यो विद्याधरः प्रियंवदः । ज्ञातीनानन्दयामास विनयादि गुणेन यः ॥ ३९ ।। पार्श्वपुनस्तृतीयोऽस्ति नेमाख्यो नियमालयः । देवपूजादि षट्कर्म पद्मिनी षन्तभास्करः ।। ४० ।।
For Private and Personal Use Only