________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 511]
तत्रास्ति हस्तिना नाम्ना नगरीमा गरीयसी। शांति कुंथरतीर्थेशा यत्रासन्निद्रवन्दिताः ।। ७ ।। विद्यते तत्समीपस्था श्रमती योगिनी पुरी । या पाति पातिसाहिश्रीर्वहलोलाभिधो नृपः ।। ८ ।। तस्याः प्रत्यगदिशिख्यातं श्रीहिसारफिरोजकम् । नगरं नगरम्भादिवल्लीराजि-विराजितम् ।। ८ ।। तत्त्र राज्यं करोत्येष श्रीमान् कुतवखानकः । तथा हैवतिखानश्च दाता भोक्ता प्रतापवान् ।। ६ ।। अथ श्रीमूलसंघेऽस्मिन् नन्दिसंघेऽनखेऽजनि । बलात्कारगणस्तत्र गच्छसारस्वत+++॥ १० ॥ तत्राजनि प्रभाचन्द्रः सूरिचन्द्रो जिनांगजः । दर्शन-ज्ञानचारित्र-तपोवीर्य-समन्वितः ॥ ११ ॥ श्रीमान् बभूव मार्तन्डस्तत्पट्टोदयभूधार । पद्मनन्दी बुधानन्दी तमश्छेदी मुनिप्रभुः ॥ १२ ॥ तत्पट्टाम्बुधिसच्चन्द्रः शुभचन्द्रः सतां वरः । पञ्चाक्षवनदावाग्निः कषायक्ष्माधराशनिः ।। १३ ॥ तदीय पट्टाम्वरभानुमाली क्षमादिनानागुणरत्नशाली । भट्टारक श्रीजिनचन्द्रनामा सैद्धान्तिकानां भुवि योऽस्ति सीमा ।। १४ ।। स्याद्वादामृतपानतृप्तमनसो यस्यातनोत् सर्वतः कीति भूमितले शशाङ्कधवला संज्ञानदानात् सतः । चार्वाकादि मतप्रवादि तिमिरोष्णांशो मनीन्द्रप्रभोः सूरि श्रीजिनचन्द्रकस्य जयतात् संघो हितस्यानखः ॥ १५ ॥ तच्छिष्या वहुशास्त्रज्ञा हेयादेय-विचारकाः । शम-संयम-संपूर्णा मुलोत्तर गुणान्विताः ॥ १६ ॥ जयकीर्तिश्चारुकीर्ति जयनन्दी मुनीश्वरः । भीमसेनादयोऽन्ये च दशधर्मधरा वराः ।। १७ ।। युग्मम् ।। अस्ति देशव्रताधारी ब्रह्मचारी गणाग्रणीः । नरसिंहोऽभिधानेन नानाग्रन्थार्थपारगः ।। १८ ॥ तथा भूरिगुणोपेतो भूरानामा महत्तमः । श्रीमानश्वपतिश्चान्यः सुमति गुरु भक्तिकृत् ।। १६ ।। अन्यो नेमाभिधानोऽस्ति नेमिधर्म रथस्य यः । परस्तीकमसंगश्च ज्ञातयज्ञोऽस्त मन्मथ: ।। २० । भवाङ्गभोगनिविण्ण स्त्रिगुणाख्यो परोमतः । सम्यक्तादि गुणोपेतः कषायदववारिदः ।। २१ ॥ ढाकाख्यो ब्रह्मचार्यस्ति संयमादि गुणालयः । सर्वेतो जिनचन्द्रस्य सूरेः शिष्या जयन्तीह ॥ २२ ॥
For Private and Personal Use Only