________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 514 ]
एतच्छास्त्रं लेखयित्वा हि सारादानाय्य सोपार्जितेन स्वराय । संघे श्रीपद्मसिंहेन भक्तप्रा सिंहान्ताय श्रीनराय प्रदत्तं ।। ५६ । यो दत्ते ज्ञानदानं भवति हि स नरो निर्जराणां च पूज्यो । भुक्ा देवाङ्गनाभिर्विषयसुखमनुप्राप्य मानुष्यजन्मा || भुक्ता राज्यस्य सौख्यं भवतनुष सुखान्निस्पृहीकृत्य चित्तं
लावा दीक्षां च बुध्वा श्रुतमपि सकलं ज्ञानमन्त्यं लभेत ।। ६० ।। ज्ञानदानाद्भवे ज्ञानी सुखी स्याद्भोजनादिह ।
निर्भयो भयतो जीवो नी रुगौषधदानतः ।। ६१ ।।
धर्मतः सकलमङ्गलावली धर्मतो भवति मुंडकेवली ।
धर्मतो जिनसुचक्रभृद्वली नाथतद्वि सुमुखो नरो वली ।। ६२ ।। ज्ञात्वेति कुर्वंतु जनाः सुधर्मं सदैहिका मुषिकसौख्यकामाः । देवार्चनादान तपो व्रताद्यै + + न लभ्यं कृषिमन्तरेण ।। ६३ ॥ डेलान्वय मंडनेन्दुवदन त्वं पद्मसिंहाख्य भोः । हेमाद्यैस्त्रिभिरङ्गजैर्ग तिमितै भीमादिभिर्बन्धुभिः ॥ भव्याम्भोरुहषण्डवासमरणेश्चारित्र चूडामणेः ।
सूरि श्रीजिनचन्द्रकस्य वचनानन्द्याश्चिरं भूतले ।। ६४ ।। शास्त्रं शस्त्रं पापवैरिक्षयेऽदः शास्त्रं नेत्रं त्वन्तरार्थप्रदृष्टी । शास्त्रं पात्रं सर्वचञ्चद् गुणानां शास्त्रं तस्माद् यत्नतो रक्षणीयम् ॥ ६५ ॥ श्रुत्वा शास्त्रं पापशतुं हिनस्ति श्रुत्वा शास्त्रं पुण्यमित्रं धिनोति । श्रुत्वा शास्त्रं सद्विवेकं दधाति तस्माद्भव्यो यत्नतस्तद्धि पाति ।। ६६ ।। यावत्तिष्ठति भूतले सुरनदी रत्नाकारो भूधर: कैलासः किल चक्रिकारि जगद्वन्द्यज्ञ चैत्यालयः । यावद्वोम्नि शशाङ्कवासरमणी प्रोस्फोटयन्तौ तमः तावतिष्ठतु शास्त्रमेतदमलं संपद्यमानं बुधैः ।। ६७ ।। सुरि श्रीजिनचन्द्राङ्घि, स्मरणाधीन चेतसा
प्रशस्ति विहिता चासौ मीहाख्येन सुधीमता ।। ६८ ।। यद् यद्यत्न क्वाप्यवंद्यं स्यादर्थे पाठे मयादृतं ।
तदा शोध्यं बुधैर्वाच्यमनन्तः शब्दवारिधिः ॥
Col. इति श्रीभव्यकुमुद्वच्चंद्रस्य सूरे: श्रिजिनचन्द्रस्य पादाम्भोरुहषट्पदेन पन्डित श्रीमेधावि संज्ञेन काव्यबन्धेन विरचिता प्रशस्ता प्रशस्तिः समाप्ता ॥ लिखितं पिरागदासमोहीका । शुभं भूयात् ।।
There is also a diagram with Yantrika mantra.
For Private and Personal Use Only