________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[506 ]
भाण्डागारपदे यस्मिन् श्रावकाः सुखमास्थिताः । दानपूजाविधींश्चक्रुर्भक्तमा संविग्नमानसाः ।। ५५ ।। दुर्निगरकोटाख्ये येन सूत्तुङ्गतोरणं । कलसध्वजरोचिष्णु कारितं जिनमन्दिरम् ।। ५६ ।। सूहो नाम्न्यस्ति तज्जाया व्यालब्धच्छाया कलालया। दायिणी पात्रदानानां भर्तुर्भक्तिविधायिणी ।। ५७ ।। मिष्टां यगिरमाकर्ण्य कोकिला वा ह्रिया पुरात् । निर्गत्य स्वं च निन्दन्ती वनवासमशिश्रियत् ।। ५८ ।। यदास्येन जितं चन्द्रं मन्ये सम्पूर्ण मण्डलम् । नो चेत् कथं ततोहनः सः क्षीयते प्रतिवासरम् ।। ५६ ।। मन्थरां सद्गतिं वीक्ष्य वराटा शोकसंगता। तत् प्राप्त्यै वा तपश्चके दुर्गमे जलसंगमे ।। ६० ।। तन्नन्दनौ समुत्पन्नौ रूपयौवनशालिनौ । कुलधुर्धरणे दक्षौ पुरुषौ बृषभाविव ।। ६१ ।। आद्यः साधारणसंज्ञः साधारो गुणभूषणः । यः सर्वज्ञपदाम्भोजे जातः षट्चरणोपमः ।। ६२ ।। यच्छासनमनुल्लंघ्यं सर्वेर्नागरिकनैः । सीमेव पक्षिराजस्य हंसपुंष्कोकिलादिभिः ।। ६३ ।। लब्धानामाल [] द्धामा द्वितीयो विनयान्वितः । प्रसादाच्छान्तिनाथस्य चिरं जीयात् स भूतले ।। ६४ ।। संघेशपद्मसिंहस्य द्वितीयोऽस्ति शरीरजः । सीहा शुतिर्धतिक्षान्ति-शान्ति-कान्तिगुणालयः ।। ६५ ।। पराक्रमेण सिंहाभः कान्त्या चन्द्रो धिया गुरुः । गाम्भीर्येण पयोराशि मरु गरिमया स्वयं ।। ६६ ।। यो नित्यं भवविच्छेदि कुरुते देवपूजनम् । जलाधरष्टभिर्द्रव्यविधिवत् स्नानपूर्वकम् ।। ६७ ।। महतीं स्वसमां लब्धि परनारी निरीक्ष्य यः । मन्यते जननी भग्नी(?)पुत्रीतुल्या स्वचेतसि ।। ६८ ॥ गुणश्रीरिति तं भेजे गङ्गेव लवणार्णवम् । उच्चैःकुलाद्रिजा शुद्धि द्विजराजि विराजिता ।। ६६ ॥ किन्नर्या इव सत्कव्या गीतानि जिनमन्दिरे । जह्न रक्षोभ्यचित्तानां मुनीनामपि मानसम् ॥ ७० ॥ वस्त्रैः पीतां सुहारैश्च श्वेतां कृष्णां शिरोरुहैः। हरितां करतांवूलैः रक्तां कुंकुममण्डलैः ।। ७१ ।। यका सौभाग्ययुक्ताङ्गी विलोक्य सुजना जनाः । नित्यमानन्दया यासुरिति मङ्गलदर्शनम् ।। ७२ ।।
For Private and Personal Use Only