________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 505] भाग्यमालम्बते यस्य शिरस्युवैर्गुरोर्न भिः । शास्त्रस्य श्रवणं श्रुत्योर्नेत्रयोः साम्यदर्शनम् ।। ३७ ।। वचने प्रियवादित्वं कण्ठेऽर्हद्गुणकीर्तनम् । बुद्धौ परोपकारस्तु स्वदि पञ्चगुणस्मृतिः ।। ३८ ॥ करे दानं सुपात्रस्य लक्ष्मीवक्षस्थलेऽवसत् । पादयोस्तीर्थयात्रा हि सभाभूपतिसन्निधौ ।। ३६ ।। अन्यो नेमाभिधानोऽभूत् नियमादिगुणालयः संघर्धरणे नेमिनिजवंशनभो रविः ।। ४० ।। जातः पुरुषसारङ्गः सारङ्गस्तृतीयसुतः । चतुर्विधमहादानविधौ कल्पतरुप्रभः ।। ४१ ।। साधुसावंतसंज्ञस्य यो द्वितीयस्तनुरूहः । सोऽयं काकणनामासीच्छीलालंकृतविग्रहः ।। ४२ ।। तदङ्गजा स्त्रयः ख्याता मुनिराजसदस्य यः । दानिनो मानिनश्चापि धनिनोऽपि यशस्विनः ।। ४३ ।। तेष्वाद्यः साधुसाल्हाख्यः साह्लादौ निजपूजने । द्यूतादिव्यसनत्यागाच्छावक व्रतभावकः ।। ४४ ।। सहजांको द्वितीयोऽभूत् सहजनाप्रियंवदः । गाम्भीर्येन पयोराशि यो जिगाय धिया गुरुम् ।। ४५ ।। तृतीयः सावलाभिख्यो जातो जगति कीर्तिमान् । यो दानं याचकेभ्योऽदात् प्रहृष्टो दृष्टिमात्रतः ॥ ४५ ।। श्रीमत्कुमारपालस्य यो जात: प्रथमोऽङ्गजः । पद्मसिंहोऽभिधानेन पद्माभास्यो जनप्रियः ॥ ४७ ॥ तद् भार्या वृतसत्कार्या साध्वी मेहिणिसंज्ञया। गोरीवेशस्य चन्द्रस्य रोहिणीव मनःप्रिया ।। ४८ ।। या सती नारीवृन्देऽभाच्छील निर्मलवारिभिः । गीतादिकलहंसश्च गङ्गव सरितांगने ॥ ४६ ॥ तयोस्तनूरुहाः सन्ति त्रयः कंदर्पमूर्तयः । शङ्ख कुन्देन्दुहाराभकीर्तयः पटुरीतयः ।। ५० ।। तेषामाद्योऽस्ति संघेशो मेरुनामा गुणाकरः । सतामग्रेसरः स्कारः सर्वलोकमनोहरः ॥ ५१ ॥ मानितः सुरतानेन बहलोलाभिधेन यः । पूर्यां सिंहतरङ्गिण्यां भाण्डागारपदे धृतः ।। ५२ ॥ ये वन्दि गृहमानीता म्लेच्छः श्रद्धादि सज्जनाः । ता[न्] विमोच्य स द्रव्येण न्यायेनोपाजितेन वै ।। ५३ ।। तेभ्यो दत्त्वा च सद्भक्ति वस्त्राणि परिधाप्य च । व्ययं विव्यतीर्य मार्गाय विससाजगृहं प्रति ॥ ५४ युगलं
64
For Private and Personal Use Only