________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 504 ] बभूव मण्डलाचार्यः सूरेः श्रीपद्मनन्दिनः । शिष्यः सकलकीाख्यो लसत्कीतिमहत्तपाः ।।१६।। आचार्यो जयकीया॑ह्वस्तच्छिष्यो मुनिकुञ्जरः ।। उत्तमक्षान्ति सुख्यानि धर्मङ्गानि दधाति यः ॥२०॥ दक्षिणा+उदग्देशे समागत्य मुनि-प्रभुः । जैनमुनोतयामास शासनं धर्मदेशनात् ॥२१॥ . पुर्यां सिंहतरङ्गिण्यां यस्मिन् जा (य) ते मुनीश्वरे । भव्यैः सम्यक् क्रमग्राहिकैश्चित् चाणुमहाव्रतम् ॥२२॥ हरिभूषणसंज्ञोऽस्ति तस्य शिष्योऽस्तु मन्मथः । एकान्तराद्यजस्रं यः करोत्युग्रं तपो मुनिः ।।२३।। परः सहस्रकीाख्यस्तच्छिष्यो भवभीरुकः । दीक्षां जग्राह यस्तक्ता भ्रातृपुत्रपरिग्रहं ॥२४॥ क्षान्ति काङ्क्षन्ति शील्यादि गुणरत्नखनिः सती । गन्धर्वश्रीरितिख्याता शीलालंकारविग्रहा ।।२५॥ अणुव्रत्यस्ति वोधाख्यो जिनादिष्टार्थसद्रुचिः । शङ्का काङक्षादिनिर्मुक्तः सम्यक्तादि गुणान्वितः ॥२६।। द्वितीयो ब्रह्ममेघाख्यो भवकायविरक्तधीः । विनयादिगुणैर्युक्तः शास्त्राध्ययनतत्परः ॥२७॥ आग्रोतवंशजः साधुलवदेवाभिधानकः । तत्त्वगुद्धरणः संज्ञा तत्पत्नी भीखुही श्रुतिः ॥२८॥ तयोः पुत्रोऽस्ति मेधावि-नामा पण्डितकुञ्जरः । आप्तागमविचारज्ञो जिनपादाब्जषट्पदः ।। २६ ।। एषामाम्नायसंपूते वंशे खंडेलसंज्ञके । गोत्रो गोधाभिधानेन नानागोधाकारोऽजनि ॥ ३० ॥ साधुसावंतकस्तन सोऽकंसोपमः कुले। यस्योपकारजाकीर्त्या सर्व श्वेतीन्तं जगत् ।। ३१ ॥ तत्पुत्रो परमोदारी दानमानादिसद्गुणैः । नागपाशविवाश्लिष्टी मिथः स्नेहवशी भृशम् ॥ ३२ ॥ साधुः कुमारपालाख्यस्तदाद्योऽभूत् सतां मतः । देवपूजादिषट्कर्मनिरतोऽविरतोऽशुभात् ।। ३३ ॥ तत्पत्नी लाञ्छिसंज्ञासीत् लक्ष्मीरिव हरेः प्रिया । यया जिग्ये स्वशीलेन सीतारूपेण सदतिः ।। ३४ ।। तत्पुननितयं जातं विनयादिगुणाश्रितं । येन स्वं भूषितं गोनं तपोरत्नत्रयेण वा ।। ३५ ।। तत्राद्यः पद्मसिंहाह्वः संघेशो जिनपादश्रित् । हिंसासत्यादिपञ्चानुव्रतमूषणभूषितः ॥ ३६ ।।
For Private and Personal Use Only