________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 503 ] चन्द्रप्रभो जिनो जीयात् चन्द्राभोऽपि तनुश्रिया । निष्कलङ्कः कलानेको भ्रान्तिहीन स्तमोगतः ।।२।। शान्तिः शान्तिको भूयात् षोडशस्तीर्थनायकः । चकार जगतः शान्ति यो धर्मामृतवर्षणैः ॥३॥ श्रीवीरं च महावीरं वर्धमानं च सम्मति । महति प्रणमामीशं कलौ कल्पतरूपमं ॥४॥ यदालम्ब्य जना यान्ति पारं संसारवारिधेः । अनन्तमहिमाढा तज्जैनं जयति शासनम् ॥५॥ जयन्तु गोतमस्वामिप्रमुखा गणनायकाः । सूरयो+जिनेन्द्राता श्रीमन्तः क्रमदेशकाः ।।६।। वर्षे नवैक पञ्चैक १५१६ पूरणे विक्रमेनतः । ज्येष्ठमासे सिते पक्षे पञ्चम्यां भौमवासरे ॥७॥ अधोमध्योर्ध्व लोकस्य यस्यां प्रज्ञापनं मतं ।
तस्यास्त्रैलोक्यप्रज्ञप्ते वंशं लेखयितुव॒वे ॥८॥ तथा। श्रीजम्बूपपदे द्वीपे क्षेत्रे भरतसंज्ञके ।
कुरु जंगल देशोऽस्ति ये च देशः सुखसम्पदां ॥६॥ विद्यते तत् समीपस्था श्रीमती योगिनीपुरी। यां पाति पातिसाहि श्रीवहलोलाभिधो नपः ॥१०॥ तस्याः प्रत्यग् दिशिख्यातं श्रीहिसारपिरोजकं नगरं नगरम्भादिवल्लीराजिविराजितं ॥११॥ तत्र राज्यं करोत्येष श्रीमान् कुतवखानकः । यश्चकार प्रजाः स्वस्थाः दाता भोक्ता प्रतापवान् ॥१२॥ अथ श्रीमूलसंघेऽस्मिन् नन्दिसंघऽनघेऽजनि । बलात्कारगणस्तत्र गच्छः सारस्वतस्वभूत् ॥१३॥ तवाजनि प्रभाचन्द्रः सूरिचन्द्रो जिनाङ्गजः । दर्शन-ज्ञान-चारित्र-तपोवीर्य-समन्वितः ॥१४॥ श्रीमान् बभूव मार्तण्डस्तत्पट्टोदयभूधरे । पद्मनन्दी बुधानन्दी तमश्छेदी मुनिप्रभुः ॥१५।। तत्पट्टाम्बुधिसच्चन्द्रः शुभचन्द्रः सताः वरः । पञ्चाक्षवनदावाग्निः कषायक्ष्माधराशनिः ॥१६॥ तदीयपट्टांबरभानुमाली क्षमादि नानागुण रत्नशाली। भट्टारकः श्रीजिनचन्द्रनामा सैद्धान्तिकानां भुवि योऽस्ति सीमा ।।१७।। स्याद्वादामृतपानतृप्तमनसो यस्या वक्षेत् सर्वतः । कीर्ति भूमितले शशाधवला सुज्ञानदानात् स्वतः ॥ चार्वाकादिमतप्रवादि तिमिरोष्णांशो मुनीन्द्रप्रभोः । सूरिश्रीजिनचन्द्रकस्य जयतात् संघो हि तस्यानधः ॥१८॥
For Private and Personal Use Only